भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 253, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 253

२४२ आपस्तम्बधर्मसूत्रे [(प्र.६)क.१४. रथः पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरणं पीठादि तदपि ॥ ८ ॥ अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके ॥ ९ ॥ भार्यायास्तु धृतोऽलङ्कारोऽंशः, ज्ञातिभ्यः पित्रादिभ्यश्च यल्लब्धं धनं तच्चे- त्येवमेके मन्यते ॥ ९ ॥ * तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १० ॥ ज्येष्ठो दायद इति यदुक्तं तच्छास्त्रैर्विरुद्धम् ॥ १० ॥ येन विरुद्धं तद्दर्शयति— (२)“मनुः पुत्रेभ्यो दायं व्यभज”दित्यविशेषेण श्रूयते ॥११॥ पुत्रेभ्य इति बहुवचननिर्देशादविशेषेण श्रवणम् ॥ ११ ॥ अत्र चोद्यम्— अथापि(३) “तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ती” त्येकवच्छ्रूयते ॥ १२ ॥ अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव- दपि श्रूयते । यथा एक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति ॥१२॥ परिहरति— अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक- स्य मुखं रेफायतीव । तस्मात् वस्तश्च श्रोत्रियश्च स्त्रीकामतमाविति ॥ १३ ॥ १. एतदनन्तरं ‘उपलक्षणमेतत् वाहनस्य’ इत्यधिकं घ.पु.

  • एतच्चिह्नानन्तरं यतोऽपि नानुवादः ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते छ. पुस्तके । २. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् इति (तै. सं. ३. १.९.) तैत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः । न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थः । ‘नाभानेदिष्ठः’ इति मनुपुत्रस्य कस्याचिन्नाम । अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४. ) अनुसन्धेया । ३. तत्रैव तैत्तिरीयश्रुतौ ( तै. सं. २. ५. २. )
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 253, कुल 399 में से · BharatKosha