आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 252, कुल 399 में से
संदर्भ में पढ़ेंदायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१ याज्ञवल्क्यः— (१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः । दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥ अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् । असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति । अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः। तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥ सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥ ३ ॥ दुहिता वा ॥ ४ ॥ दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ५ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः । सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥ देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥ क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं माषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥ १ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३. आप० ध० ३१