भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

दायभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४१ याज्ञवल्क्यः— (१)संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदरः । दद्याच्चाऽपहरेच्चांशं जातस्य च मृतस्य च ॥ अन्योदर्यस्तु संसृष्टी नाऽन्योदर्यधनं हरेत् । असंसृष्ट्यपि चाऽऽदद्यात्सोदर्यो नान्यमातृजः ॥' इति । अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्त्यतिशयात्(२) पितैवेत्याचार्यस्य पक्षः। तदभावे सोदर्यः, तदभावे तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्रं लभेरन्निति ॥ २ ॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ ३ ॥ सपिण्डाभावे आचार्यो दायं हरेत् । तस्याऽप्यभावे अन्तेवासी हरेत । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥ ३ ॥ दुहिता वा ॥ ४ ॥ दुहिता वा दायं हरेत् । पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ५ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे ॥ ५ ॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः । सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्वं वा पूर्वजस्येतरान् बिभृयात्पितृव'दिति ॥ ६ ॥ देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥७॥ क्वचिद्देशे सुवर्णादि ज्येष्ठस्य भाग इत्याहुः । भूमौ जात भौमं धान्यं कृष्णं माषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८ ॥ १ या. स्मृ. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ. ध.२८.३. आप० ध० ३१

२४२ आपस्तम्बधर्मसूत्रे [(प्र.६)क.१४. रथः पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरणं पीठादि तदपि ॥ ८ ॥ अलङ्कारो भार्यायाः ज्ञातिधनं चेत्येके ॥ ९ ॥ भार्यायास्तु धृतोऽलङ्कारोऽंशः, ज्ञातिभ्यः पित्रादिभ्यश्च यल्लब्धं धनं तच्चे- त्येवमेके मन्यते ॥ ९ ॥ * तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १० ॥ ज्येष्ठो दायद इति यदुक्तं तच्छास्त्रैर्विरुद्धम् ॥ १० ॥ येन विरुद्धं तद्दर्शयति— (२)“मनुः पुत्रेभ्यो दायं व्यभज”दित्यविशेषेण श्रूयते ॥११॥ पुत्रेभ्य इति बहुवचननिर्देशादविशेषेण श्रवणम् ॥ ११ ॥ अत्र चोद्यम्— अथापि(३) “तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ती” त्येकवच्छ्रूयते ॥ १२ ॥ अथापि ननु चेत्यर्थः । ज्येष्ठं पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव- दपि श्रूयते । यथा एक एव ज्येष्ठो दायादः तदनुरूपमपि श्रूयते इति ॥१२॥ परिहरति— अथापि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक- स्य मुखं रेफायतीव । तस्मात् वस्तश्च श्रोत्रियश्च स्त्रीकामतमाविति ॥ १३ ॥ १. एतदनन्तरं ‘उपलक्षणमेतत् वाहनस्य’ इत्यधिकं घ.पु.

  • एतच्चिह्नानन्तरं यतोऽपि नानुवादः ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते छ. पुस्तके । २. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् इति (तै. सं. ३. १.९.) तैत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः । न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थः । ‘नाभानेदिष्ठः’ इति मनुपुत्रस्य कस्याचिन्नाम । अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४. ) अनुसन्धेया । ३. तत्रैव तैत्तिरीयश्रुतौ ( तै. सं. २. ५. २. )

दायविभागः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४३ अथापीति परिहारोपक्रमे । पशूनां मध्ये अजाश्वाऽवयश्च जातिभेदेऽपि सह चरन्ति । रेफा शोभा । इह तु तद्गत्यभेदोपचारः । ततः क्यष् । स्नातकस्य मुखं कुण्डलादिना शोभते । इवशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री- कामतत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात् । यथैतानि वाक्या- नि दृष्टान्तमात्रमनुवदन्ति न किञ्चिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या- दिकमप्यविधिरीति न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥ सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥ हिशब्दो हेतौ । यस्मादेवाऽनुवादौ न कस्यचिद्विधायकौ तस्माद्ये धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥ यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो- ऽपि तमभागं कुर्वीत ॥ १५ ॥ यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुङ्क्ते तमभागं कुर्वीत जीव- द्विभागे पिता भागं न दद्यात् । ऊर्ध्वं विभागे(१) पितुर्भ्रातरः । अपिश- ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्यं ख्याप्यते ॥ १५ ॥ जीवन् पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार- णमाह— जायापत्योर्न विभागो विद्यते ॥ १६ ॥ स्पष्टम् ॥ १६ ॥ कस्मात् ? पाणिग्रहणाद्धि सहत्वं कर्मसु ॥ १७ ॥ कर्मार्थं द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः । किं तर्हि ? सह- भावेन—'यस्त्वया धर्मश्च कर्तव्यस्सोऽनया सह'ति वचनात् । तत्र किं पृथक् द्रव्यणेति ॥ १७ ॥ (३)तथा पुण्यफलेषु ॥ १८ ॥ पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्वमेव । (४)'दिवि ज्योतिरजर- मारभेता' मित्यादिभ्यो मन्त्रलिङ्गेभ्यः ॥ १८ ॥ १. विभागेऽपि भ्रातर इति. च. पु. २. इत्यत्र भार्याया भागो न दर्शितः। इति घ.ड.पु. ३. इदमग्रिमं च सूत्रमेकतया लिखितं क. पु. । ४. तै ब्रा. ३ ७.५. ११.

२४४ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क.१५. द्रव्यपरिग्रहेषु च ॥ १९ ॥ द्रव्यपरिग्रहेषु च द्रव्यार्जनेष्वपि तथा सहत्वमेव । तत्र पतिरा- र्जयति, जाया गृहे निर्वहतीति योगक्षेमावुभयायत्ताविति द्रव्यपरिग्रहे- ऽपि सहत्वम् ॥ १९ ॥ एतदेवोपपादयति— न हि भर्तुर्विप्रवासे नैमित्तिके दानं स्तेयमुपदिशन्ति॥२०॥ हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दद्यादि'त्यादिके दाने कृते भार्याया न स्तेयमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात् स्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनात् द्रव्यान्तरे स्तेयं भव- त्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्योर्वैषम्यं—यत् पतिर्यथेष्टं वि- नियुङ्क्ते जाया त्वेतावदेवेति । न च पत्युस्स्वयमर्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्रे । अत एव भार्यायास्तेयशङ्का, न भर्तुः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्दशी काण्डिका ॥ १४ ॥ एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥ 'ज्येष्ठो दायाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण- मित्युकम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु- लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमाणमिति । गौतमोऽप्याह— (१)'देशकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाण'मिति ॥ १ ॥ मातुश्च योनिसम्बन्धेभ्यः पितुश्चाऽऽसप्तमाद्यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान् परिहाप्याऽऽपरिसंवत्सरान् ॥ २ ॥ मातुर्योनिसम्बन्धा मातुलादयः । पितुश्चासप्तमात् पुरुषात् सम्बन्धास्सपि- ण्डादयः पैतृष्वस्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वयः । यावता वा- न्तरेण सम्बन्धो ज्ञायते स्मर्यते जन्मना नाम्ना वाऽमुष्याऽयमस्मत्कूटस्थस्य १. गौ. ध. ११. २०.

प्रेतोदकदानम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४५ वंश्य एवंनामेति । तथा च मनुः- (१)'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥' इति । य एवंभूताः पुरुषास्तेषां प्रेतेषु मृतेषु उदकोपस्पर्शन मरणनिमित्तं स्नानं कर्तव्यम् । गर्भान् बालान् अपरिसंवत्सरानपरिपूर्णसंवत्सरान् परि हाय्य वर्जयित्वा । बालेषु मृतेषु स्नानं न कर्तव्यमिति ॥ २ ॥ मातापितरावेव तेषु ॥ ३ ॥ बालेषु मृतेषु मातापितरावेवोदकस्पर्शन कुर्याताम् ॥ ३ ॥ हतारश्च ॥ ४ ॥ ये च तान् बालान् मृतान् हरन्ति तेऽप्युदकोपस्पर्शनं कुर्युरीति । एवमाचार्यस्य पक्षः ॥ ४ ॥ भार्यायां परमगुरुसंस्थायां चाकालभोजनम् ॥ ५ ॥ भार्या पत्नी । परमगुरव आचार्यमातापितरः । संस्था मरणम् । भार्या- यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन, किं तर्हि ? अपरेद्युः आ तस्मात्कालात् अभोजन च ॥ ५ ॥ किं च- आतुरव्यञ्जनानि कुर्वीरन् ॥ ६ ॥ आतुरत्वं व्यज्यते यैस्तानि च कुर्वीरन् भार्यादिमरणे ॥ ६ ॥ कानि पुनस्तानि ? केशान्प्रकीर्य पांसुनोप्यैकवाससो दक्षिणामुखास्स- कृदुपमज्ज्योत्तीर्योपविशन्त्येवं त्रिः ॥ ७ ॥ प्रकीर्य केशान् पांसूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः । दक्षिणामुखाः दक्षिणां दिशं निरीक्षमाणाः सकृदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति दक्षिणामुखा एव ॥ ७ ॥ एवं त्रिः ॥ ८ ॥ एवमुक्तप्रकारेण त्रिरुपमज्ज्योपविशेयुः ॥ ८ ॥ १. म. ५. ६०.

२४६ आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १५. तत्प्रत्ययमुदकमुत्सिच्याऽप्रतीक्षा ग्राममेत्य यत्स्त्रिय आहुस्तत्कुर्वन्ति ॥ ९ ॥ ततः तत्प्रत्ययं तेषां मृतानां भार्यादीनां यथा प्रत्ययो भवति—मह्यमुदकं दत्तमिति, तथोदकमुत्सिञ्चन्ति। त्रिरित्यनुवृत्तेस्त्रिः। आचारात्पीड्यत्त्वाञ्च वाससा तिलमिश्रं हस्ताभ्यां। भारद्वाजाय यज्ञशर्मणे एतत्तिलोदकं ददा- मीति प्रयोगः। उत्सिच्या प्रतीक्षाः पृष्ठतोऽनिरीक्षमाणा ग्राममेत्य गृहं प्रविश्य । अनेन बहिरिदं कर्मेति गम्यते । यत्तत्र मृतविषये स्त्रियः कर्तव्यमित्याहुः तत्कुर्वन्ति अग्न्युपस्पर्शनगवालम्भनादीनि । एतत्प्रथमेऽहनि । द्विती यादि(१)ष्वहरहरञ्जलिनैकोत्तरवृद्धिरैकादशाहारिति पितृमेध उक्तं द्र ष्टव्यम् ॥ ९ ॥ इतरेषु चैतदेवैक उपदिशन्ति ॥ १० ॥ ‘आकालमभोजन’ (२. १५, १) मित्यादि यदुक्तं तदितरेषु भार्यादि- भ्योऽन्येष्वपि सपिण्डेषु मृतेषु कर्तव्यमित्येके आचार्या उपदिशन्ति ॥१०*॥ शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत् ॥ ११ ॥ एकान्तेऽपि विधिप्रतिषेधानुसारिणः शुचयः, तान्। मन्त्रवतः (२)अ धीतवेदान् सर्वकृत्येषु श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु दैवेषु पित्र्येषु मानुषेषु च भोजयेत् । (३)अन्ते 'ततो ब्राह्मणभोजन'मिति स्मृत्यन्तरे दर्शनात् ॥ ११ ॥ देशतः कालतः शौचतः सम्यक्प्रतिग्रहीतृत इति दानानि प्रतिपादयति ॥ १२ ॥

  • एतदन्तर— ब्राह्मणश्चैतस्मिन् कालेऽमात्यान् केशश्मश्रूणि वा वापयते ॥ ११ ॥ अमात्याः प्रधानाः । स्पष्टमन्यत् ॥ ११ ॥ समावृत्ता न वा वपेरन् ॥ १२ ॥ पूर्वापवादोऽयम् । अमात्येष्वेव गुरुकुलात् समावृत्ताः स्नातकाः न केशादि वाप- येरन् ॥ १२ ॥ न विहारिण इत्यन्ये ॥ १३ ॥ विहारिणो बालाः । तेऽपि न ॥ १३ ॥ इत्यधिकं. घ. पुस्तके. १. आप. पि. सू. २. 'अधीताविस्मृतवेदान्' इति. ड. पु ३. 'अन्ततः' इति. च' पु.

अहविष्यहोमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४७

सप्तम्यर्थे तसिल् । देशः प्रयागादिः । कालः सूर्यग्रहणादिः । (१)शौ- चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो- वृद्धश्श्रेया'नित्यादि । एतेषु दानानि देयान्यवश्यं प्रतिपादयति दद्यादिति१२ यस्याऽग्नौ न क्रियते यस्य चाऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ यस्याऽन्नस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माच्चोद्धृत्याऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ न क्षारलवणहोमो विद्यते ॥ १४ ॥ यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु चादि । (४)क्षारलवणसंसृष्टं न होतव्यम् ॥ १४ ॥ तथाऽवरात्रसंसृष्टस्य च ॥ १५ ॥ अवरात्रं कुलुत्थादि । तत्संसृष्टस्याप्यन्नस्य होमो न विद्यते ॥ १५ ॥ अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तत्राह - अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि ञ्जुहुयात्तद्भुतमहुतं चाग्नौ भवति ॥ १६ ॥ औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्णं भस्माऽपोह्य तस्मिन् भस्मनि जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहविष्यस्य होमः । तदेवं क्रियमाणं हुतं च भवति हवनार्थनिर्वृत्तेः । अहुतं चाऽग्नौ भवति । भस्ममात्रत्वादिति । अत्र बोधायनः— (६)अथ यद्येतदेवाग्नं स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जु- हुया'दिति । (७)अपर आह—यान्यहविष्याणि व्यञ्जनान्यहरहर्भोज्यानि तेषा- मेष संस्कारस्सकृच्च होमोऽमन्त्रक इति ॥ १६ ॥ उत्तरे द्वे सूत्रे स्पष्टे— न स्त्री जुहुयात् ॥ १७ ॥


१. शौचं कृच्छ्रादि इति ङ. च. पु. २. 'यस्य ब्राह्मणस्यान्नं न दीयत' इति क.च. पुस्तकोराधिकम् । ३. 'गुडसुधालिकुचादि' इति ङ. पु. ४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गास्ते शैब्यं सस्ये गोधूमकोद्र- वौ । धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् । स्विन्नधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति घ.पु. ६. बौधा. गृ. ७. अपरे मन्यन्ते 'इति. घ. पु.

२४८ आपस्तम्बधर्मसूत्रे [ (प.६.) क. १५ ] नाऽनुपेतः ॥ १८ ॥ आन्नप्राशनाद्गर्भा नाऽप्रयता भवन्ति ॥ १९ ॥ अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शेऽपि । गौतमस्तु अपां मार्जनादिकमिच्छति । यथाह (१)'अन्यत्राऽपां मार्जनप्र- धावनावोक्षणेभ्यः' ॥ १९ ॥ आ परिसंवत्सरादित्येके ॥ २० ॥ यावत् संवत्सरो न परिपूर्यते तावन्नाप्रयता गर्भा इत्येके मन्यते॥२०॥ यावता वा दिशो न प्रजानीयुः ॥ २१ ॥ यावद्दिग्विभागज्ञानं नाऽस्ति तावन्नाऽप्रयता भवन्ति ॥ २१ ॥ (२)ओपनयनादित्यपरम् ॥ २२ ॥ उपनयनादर्वाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥ अत्रोपपत्तिः— अत्र ह्याधिकारश्शास्त्रैर्भवति ॥ २३ ॥ हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥ सा निष्ठा ॥ २४ ॥ उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसमानाधिकरण्यात् स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥ स्मृतिश्च ॥ २५ ॥ अस्मिन्नर्थे स्मृतिरपि भवति—(४)उताऽब्रह्मचारी यथोपपादमूत्रपु- रीषो भवति नाऽस्याऽचमकल्पो विद्यते इति (५)'प्रागुपनयनात्काम- चारवादभक्ष' इति गौतमः ॥ २५ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥ १. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयनादित्येके इति घ. ३ घ. पुस्तके 'भवतीति'इतीतिकरणान्तं सूत्रं पठित्वा'इति करणे हेतौ' इति व्याख्यातम् । ४. 'उते'त्यादि 'विद्यत'इत्यन्तं घ. पुस्तक एवास्ति । ५. गौःध. २. १.

अथ सप्तमः पटलः ॥ सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क- र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव- न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि- श्चेयसाय च ॥ १ ॥ (२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा. कर्मभिः श्रौतैस्स्मार्तैर्गा‌र्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क- र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म- णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा- द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च- तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य चकारः। अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः फलमिति ॥ १ ॥ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥ तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा- स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क- रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र- धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥ मासि मासि कार्यम् ॥ ३ ॥ तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः। १. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु. ३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु. ४. 'प्रधानतत्व' इति च पु. आप० ध० ३२

२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६. अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥ अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥ तथाऽपरपक्षस्य जघन्यान्‍यहानि ॥ ५ ॥ यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त- तरम् ॥ ५ ॥ सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥ सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥ कोऽसावित्याह— प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥ यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री- प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥ द्वितीये स्तेनाः ॥ ८ ॥ जायन्ते चोराः पुत्राः ॥ ८ ॥ (२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥ (३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥ चतुर्थे क्षुद्रपशुमान् ॥ १० ॥ क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४) कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥ पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥


१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु. २. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः । ३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह— तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके । ४ कर्तुंनुवाद०, इति घ. पु ।

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१ पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव- त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥ षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥ अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥ सप्तमे कर्षे राद्धिः ॥ १३ ॥ कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥ अष्टमे पुष्टिः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ नवम एकखुराः ॥ १५ ॥ अश्वादयः ॥ १५ ॥ दशमे व्यवहारे राद्धिः ॥ १६ ॥ व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥ एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥ कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥ द्वादशे पशुमान् ॥ १८ ॥ द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ति ॥ १९ ॥ त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥ चतुर्दश आयुष्ये राद्धिः ॥ २० ॥ संग्रामे जय. ॥ २० ॥ पञ्चदशे पुष्टिः ॥ २१ ॥ १. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु । २. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।

२८२ आपस्तम्बधर्मसूत्रे [,(प्र.७)क. १६, स्पष्टम् ॥ २१ ॥ तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि च ॥ २२ ॥ तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥ स्नेहवति त्वेवाऽन्ने तीव्रतरा पितॄणां प्रीतिर्द्रा- घीयांसं च कालम् ॥ २३ ॥ यद्वा तद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ- णां तीव्रतरा प्रकृष्टतरा प्रीतिर्भवति । सा च द्राघीयांस च कालमनुवर्तते ॥ तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥ धर्मार्जितं यद्द्रव्यं पात्रे च प्रतिपादितं तेनाऽपि तथा तीव्रतरा पितृ णां प्रीतिर्दीघीयांस च कालमिति ॥ २४ ॥ संवत्सरं गव्येन प्रीतिः ॥ २५ ॥ उत्तरत्र मांसग्रहणादिहापि मांसस्य ग्रहणम् । गव्येन मांसेन संवत्सरं पितॄणां प्रीतिर्भवति ॥ २५ ॥ भूयांसमतो माहिषेण ॥ २६ ॥ माहिषेण मांसेन, अतः सम्वत्सरात् भूयास बहुतरं कालं पितॄणां प्रीतिर्भवति ॥ २६ ॥ एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥२७॥ एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा- दीनां मांसं मेध्यं व्याख्यातम्—पितॄणां प्रीतिकरमिति । मेध्यग्रहणं प्रति- षिद्धानां मा भूदिति ॥ २७ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५३ खड्गोपस्तरणे खड्गमांसेनाऽऽनन्त्यं कालम् ॥ १ ॥ खड्गचर्मोपस्तरणेष्यासनेषूपविष्टेभ्यो ब्राह्मणेभ्यो दत्तेन खड्गमां- सेनानन्तं कालं प्रीतिर्भवति । आनन्त्यमिति पाठे स्वार्थे ष्यञ् ॥ १ ॥ तथा शतबलेर्मत्स्यस्य मांसेन ॥ २ ॥ शतबलिर्बहुशल्यको रोहिताख्यः ॥ २ ॥ वार्ध्रीणसस्य च ॥ ३ ॥ व्याख्यातो वार्ध्रीणसः । तस्य मांसेनाऽऽनन्त्यं कालं प्रीतिर्भवति ॥ ३ ॥ प्रयतः प्रसन्नमनास्सृष्टो भोजयेद्ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् ॥ ४ ॥ प्रयतः स्नानाचमनादिना शुद्धः । प्रसन्नमनाः अव्याकुलमनाः । सृष्टः उत्सा- हवान् । (१)'सृष्टश्चेद्व्राह्मणवधे हत्वाऽपी'तिदर्शनात् । (२)'वृत्तिसर्गताय- नेषु क्रमः' इत्यत्र च सर्गे उत्साहः । एवम्भूतो ब्राह्मणान् भोजयेत् । कीदृ- शान्? ब्रह्मविद आत्मविदः । योन्यादिभिरसम्बन्धान् योनिसम्बन्धा मातु- लादयः । गोत्रसम्बन्धा सगोत्राः । मन्त्रसम्बन्धा ऋत्विजा याज्याश्च । अन्ते- वासिसम्बन्धाश्शिष्या आचार्याश्च ॥ ४ ॥ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ॥ यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल- भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्यः किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५ ॥ एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥ एतेन सोदर्येण अन्तेवासिनः बहुवचननिर्देशात् पूर्वत्र निर्दिष्टा योन्या- दिभिस्सम्बन्धास्सर्व एव व्याख्याता.—अन्येषामभावे समुदेता भोजयि- तव्या इति । अत्र मनुः— (३)'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्तु विज्ञेयः सदा सद्भिरनुष्ठितः ॥ १. गौ ध. २२. ११. २. पा. सू. १ ३. ३८. ३. म. स्मृ. ३. १४७,

२६४ आपस्तम्बधर्मसूत्रे [ (प.७.) क. १७. (१)मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं(२) विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥' इति॥६॥ अथाप्युदाहरन्ति ॥ ७ ॥ सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मज्ञा वचनमुदाहरन्ति ॥ ७ ॥ सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ ८ ॥ परस्परं भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः पिशाचभिक्षायाः । नैषा पितॄन् गच्छति नाऽपि देवान् । किं तु क्षीणपुण्या परलो- कप्रयोजनरहिता सती इहैव चरति लोके यथा गौर्मृतवत्सा गृहाभ्यन्तर एव चरति न बहिर्गच्छति तद्वदेतत् ॥ ८ ॥ तद्व्याचष्टे— इहैव सम्भुञ्जतीति दक्षिणा कुलात्कुलं विनश्यतीति ॥ ९॥ सम्भुञ्जती परस्परभोजनस्य निमित्तभूता दक्षिणा श्राद्धे दानक्रिया गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥ ९ ॥ अथ बहुषु तुल्यगुणेषूपस्थितेषु कः परैर्ग्राह्यः ? तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ १० ॥ यो वयसा वृद्धस्स तावद्ग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि- प्समानश्च भवति स ग्राह्यः(३) । अद्रव्यकृशोऽपि अवृद्धोऽपि, द्वयोस्तु समवाये यथारुचीति ॥ १० ॥ पूर्वेद्युर्निवेदनम् ॥ ११ ॥ श्राद्धदिनात्पूर्वेद्युरेव ब्राह्मणेभ्यो निवेदयितव्यम्—श्वः श्राद्धं भविता तत्र भवताऽऽहवनीयार्थे प्रसादः कर्तव्य इति ॥ ११ ॥ अपरेद्युर्द्वितीयम् ॥ १२ ॥ अपरेद्युः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य श्राद्धमिति ॥ १२ ॥ १. म स्मृ. ३. १४८. २. विट्पतिर्जामाता । ३. यद्वा वयो वृद्धो ग्राह्योऽद्रव्यकृशोऽपि । द्रव्यकृशोऽप्यवृद्धोऽपीति । इति पाठः च. पु. ।

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ तृतीयमामन्त्रणम् ॥ १३ ॥ आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्‍यतामिति तत्तृतीयं भवति॥१३॥ त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥ न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्‌आ वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥ यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥ येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥ सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥ सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद- नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् । तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्‍यतामिति । ततो होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव- राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥ प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥' इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः । तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं, प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी १. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. । ३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः । ४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. । ५. आश्व. गृ. ४ ८ ३. ।

२६६ | आपस्तम्बधर्मसूत्रे | [ (प्र.७.) क. १७. व्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थ्यात् सर्वेषामपि भवति ॥ १७ ॥ 'उद्ध्रियतामग्नौ च क्रियता' मित्यामन्त्रयते ॥ १८ ॥ होमकाल 'उद्ध्रियतामग्नौ च क्रियतामि'त्यनेन मन्त्रेण ब्राह्मणान्मन्त्रयते। मन्त्रे(१)'अधीष्टे च'ति लोट्प्रत्ययः ॥ १८ ॥ 'काममुद्ध्रियतां काममग्नौ च क्रियता'मित्यतिसृष्ट उद्धरेज्जुहुयाच्च ॥ १९ ॥ अथ ब्राह्मणाः काममुद्ध्रियता काममग्नौ च क्रियतामित्यतिसृजेयुः अनु- जानीयु.। तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्मणार्थे पक्वाद्न्ना- दन्यस्मिन् पात्रे पृथक्करणम् । तत्सूत्रकारेण ज्ञापितमष्टकाश्राद्धे ॥१९॥ श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते ॥ २० ॥ (श्वभिरिति बहुवचनात् ग्रामशूकरादीनां तादृशानांग्रहणम् ।) अप- पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गर्हन्ते शिष्टाः । अतो यथा ते न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥ श्वित्रश्शिपिविष्टः परतल्पगाम्यायुधीयपुत्रश्शू- द्रोत्पन्नो ब्राह्मण्‍यामित्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषणा भवन्ति ॥ २१ ॥ (३)श्वित्रश्वित्री श्वेतकुष्ठी । शिपिविष्टः खलतिः । विवृत्तशेफ इत्यन्ये । पर- तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र. क्षत्रियवृत्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण ब्राह्मण्‍यामुत्पन्नश्चण्डालः। न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद' इत्यु- क्तत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शूद्रायां पूर्वमुत्पाद्य पश्चात् ब्राह्मण्‍यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्‍यामिति । स हि पिता शूद्रः सम्पन्नः । श्रूयते हि(४)'तज्जाया जाया भवति यदस्यां जायते पुनर्दि'ति । स्मर्यते च- (५)'यदुच्यते द्विजातीनां शूद्राहारपरिग्रहः । न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥' इति । १. पा सू. ३. ३. ११६. ( ) कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति । २. 'परिश्रितेन' इति. क. च. पु. । ३. श्वित्री. म श्वित्री कुष्ठी. इति घ. पु. । ४. ऐ. बा. ७. ३. १३. ५. या. स्मृ. १. ५७. ।

श्राद्धीयब्राह्मणः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५७ (१)एते श्विव्यादयः श्राद्धे भुञ्जानाः पङ्क्ति दूषयन्ति । अतस्ते न भोज्या इति ॥ २१ ॥ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्ये- ष्ठसामिको वेदाध्यायनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति ॥२२॥ 'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यृचं त्रयो मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्णं (३) 'चतुष्कपर्दा युवति सुपेशा' इत्यादिकस्तृचो बाह्वृचः । अन्ये तु तैत्तिरीयके (४) 'ब्रह्म मेतु मा'मित्यादयः त्रयोऽनुवाका इत्याहुः । तत्र हि 'य इमं त्रिसुपर्णम- याचितं ब्राह्मणाय दद्यादि'ति श्रूयते 'आसहस्रात् पङ्क्ति पुनन्ती'ति च । पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेताऽग्निर्बह्वीषु शाखासु विधीयते (५)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणेन सह स त्रिणाचिकेत (६)नाचिकेताग्निश्श्वेतव्येत्यन्ये । विरजानुवाकाध्यायित्यन्ये, (७)- प्राणापानेत्यादि । चतुर्मेधः अश्वमेधः, सर्वमेधः, पुरुषमेधः, पितृमेध, इति चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णां यज्ञानामाहर्तेत्यन्ये । पञ्चाग्निः १. इतः पूर्वं वृषलीपतिः वृषली शूद्रकन्या अदत्ता रजस्वला च वृषली तस्याः पतिः निषिद्धद्रव्यविक्रेता तिलकम्बलरसविक्रेता । राजभृत्य. राज्ञस्सकाशात् भृतिं वेतनं गृह्णाति स राजभृत्य. ॥ ब्राह्मणायमेवोत्पन्नस्सन् यस्योत्पादयिता सन्दिग्धः स तदुत्पन्न एवेति । शिपिविष्टादयः श्राद्धे भुजाना ,... इति पाठो घ. पुस्तके । २. मधु वाता ऋतायते, मधु नक्तमुतोषसि, मधुमान्नो वनस्पति.(तै. सं. ४. २. ९.) इति तिस्र ऋचः त्रिमधु. । ३ चतुष्कपर्दा युवतिः, एकस्सुपर्णस्ससमुद्रम्, सुपर्णं विप्राः, इति तिस्र. ऋचः (ऋ. सं. ८. ६. १६.) ४ ब्रह्ममेतु माम्, ब्रह्ममेधया, ब्रह्ममेधवा, तै. आ. ( महानारायणोपनिषदि. ) ( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः । ५. तैत्तिरीयके. ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः । कठोपनिषदि प्रथ- मादितिष्रु वल्लीषु, शतपथे । ६. नाचिकेताग्निस्त्रैश्चेतेत्यन्ये, इति. च. पु. ७. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं स्वाहा. (तै. आ. ( महाना. ) ९५ ) इत्यादिः विरजानुवाकः । आप० ध० ३३

२५८ आपस्तम्बधर्मसूत्रे [(प्र. ७) क. १९.

सभ्यावसथ्याभ्यां सह ।(१)पञ्चानां काठकाग्नीनामध्येता वा । ज्येष्ठसाम तलवकारिणां प्रसिद्धं उदु त्य,चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ- समागः । ज्येष्ठसामिक इति पाठे व्रीह्यादित्वात् ठन् । वेदाध्यायी स्वाध्या- यपरः । अनूचानपुत्रः त्रैविद्यपुत्रः । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थं द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पङ्क्तिं शोधयन्ति । वेदाध्यायीत्यस्यानन्तर मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चाग्नीत्यविभक्तिकपाठो व्याख्यातः ॥ २२ ॥ न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥ श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्तमियात् तदा श्राद्धशेषं न कुर्वीत, अपरेद्युर्दिवैव कुर्वीतेति ॥ २३ ॥ आरब्धे चाऽभोजनमासमापनात् (अन्यत्र राहुदर्शनात्) ॥ २४ ॥ पूर्वेद्युर्निवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तुर्भोजनप्रतिषेधः । अ- नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । ‘न च नक्त’मित्यस्यापवादः राहु- दर्शने नक्तमपि कुर्वीतेति । उदीच्यास्त्वेतत्प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् । प्रत्युत ‘न च नक्त’मित्येतत् सोमग्रहणविषयमिति व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम्॥२४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तदशी कण्डिका ॥ १७ ॥

इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥


१. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या० पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु समन्त्रका आम्नाता० पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या- ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः ।

अथाष्टमः पटलः ॥ विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीतमलम्। यस्य दध्नो हस्तादिना मन्थनमात्रं न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुकाः- (१)'तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्'ति । यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमांसे प्रसिद्धे । मांस- मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनार्यसम्मताः ॥ २ ॥ कृष्णधान्यं(२)माषादि । न कृष्णा व्रीहयः । शूद्रान्नं पक्कमपक्वं च । ये चान्येऽनार्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्यं कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥ ३ ॥ स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशै- तानि वर्जयेत् ॥ ४ ॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ- नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादे- रपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृश- न्नग्निकृद्वृत्तिरच्छाद्योपगतस्थानासनिकस्सं- वत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्स- म्मितमित्याचक्षते ॥ ५ ॥ १. अमरको. २. का. वै. ५३. २. कुलुत्थादि इति घ. च. पुस्तकयो , कृष्णकुलुत्थादि. इति ड. पु. ३. 'अहविष्यं'मित्यादि 'वर्जये' दित्यन्तमेकसूत्रं क. पुस्तके परम् ।

४. द्वितीय प्रश्न (पटल ६-८): राजधर्म व दण्ड-नीति

२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि- पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात् कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् । एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो जनमिति । अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति । तथा च बौधायनः— (१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः । तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति- पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥ नित्यश्राद्धम् ॥ ६ ॥ अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥ तत्र नवानि द्रव्याणि ॥ ८ ॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥ कानि पुनस्तानि ? यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥ यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥ १. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।