आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 261, कुल 399 में से
संदर्भ में पढ़ें२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६. अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥ अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥ तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ५ ॥ यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त- तरम् ॥ ५ ॥ सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥ सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥ कोऽसावित्याह— प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥ यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री- प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥ द्वितीये स्तेनाः ॥ ८ ॥ जायन्ते चोराः पुत्राः ॥ ८ ॥ (२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥ (३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥ चतुर्थे क्षुद्रपशुमान् ॥ १० ॥ क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४) कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥ पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥
१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु. २. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः । ३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह— तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके । ४ कर्तुंनुवाद०, इति घ. पु ।