आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 262, कुल 399 में से
संदर्भ में पढ़ेंश्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१ पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव- त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥ षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥ अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥ सप्तमे कर्षे राद्धिः ॥ १३ ॥ कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥ अष्टमे पुष्टिः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ नवम एकखुराः ॥ १५ ॥ अश्वादयः ॥ १५ ॥ दशमे व्यवहारे राद्धिः ॥ १६ ॥ व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥ एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥ कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥ द्वादशे पशुमान् ॥ १८ ॥ द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ति ॥ १९ ॥ त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥ चतुर्दश आयुष्ये राद्धिः ॥ २० ॥ संग्रामे जय. ॥ २० ॥ पञ्चदशे पुष्टिः ॥ २१ ॥ १. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु । २. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।