आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 270, कुल 399 में से
संदर्भ में पढ़ेंअथाष्टमः पटलः ॥ विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीतमलम्। यस्य दध्नो हस्तादिना मन्थनमात्रं न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुकाः- (१)'तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्'ति । यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमांसे प्रसिद्धे । मांस- मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनार्यसम्मताः ॥ २ ॥ कृष्णधान्यं(२)माषादि । न कृष्णा व्रीहयः । शूद्रान्नं पक्कमपक्वं च । ये चान्येऽनार्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्यं कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥ ३ ॥ स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशै- तानि वर्जयेत् ॥ ४ ॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ- नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादे- रपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृश- न्नग्निकृद्वृत्तिरच्छाद्योपगतस्थानासनिकस्सं- वत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्स- म्मितमित्याचक्षते ॥ ५ ॥ १. अमरको. २. का. वै. ५३. २. कुलुत्थादि इति घ. च. पुस्तकयो , कृष्णकुलुत्थादि. इति ड. पु. ३. 'अहविष्यं'मित्यादि 'वर्जये' दित्यन्तमेकसूत्रं क. पुस्तके परम् ।