आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 271, कुल 399 में से
संदर्भ में पढ़ें२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि- पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात् कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् । एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो जनमिति । अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति । तथा च बौधायनः— (१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः । तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति- पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥ नित्यश्राद्धम् ॥ ६ ॥ अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥ तत्र नवानि द्रव्याणि ॥ ८ ॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥ कानि पुनस्तानि ? यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥ यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥ १. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।