आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 247, कुल 399 में से
संदर्भ में पढ़ें२३६ आपस्तम्बधर्मसूत्रे [(प.६.)क.१४. पुनर्भवश्च कानीनस्सहोधो गूढसम्भवः । दत्तः क्रीतस्स्वयंदत्तः कृत्रिमश्चाऽपविद्धकः । यत्र क्वचोत्पादितश्च पुत्राख्या दश पञ्च च । अनेनैव क्रमेणैषां पूर्वाभावे परः परः । पिण्डदोंऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः । औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया'मिति पूर्व मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं चेष्ट्वास्म- दर्थमपत्यमिति संवाद्ये'ति । बृहस्पतिः- 'एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः । तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥' इति । मनुः- (२)पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥ इति । याज्ञवल्क्यः- (३)अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति । अयमेक एवोत्पादयितुर्बीजजः, क्षेत्रजस्तु क्षेत्रिणः । बृहस्पतिः- 'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ । रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥' इति । काश्यपः- 'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उदकं स्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता या च पुनर्भूप्रसवा च या ' ॥ कात्यायनः- क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातः व्यक्तमुत्पादकस्य सः ॥ इति । मनुः- (४)पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । १. गौ. ध २८. १८ २. म. स्मृ. ९. १३४. ३. या. स्मृ. २. १२७. ४. म. स्मृ. ९. १७२.