आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 248, कुल 399 में से
संदर्भ में पढ़ेंद्वादश पुत्राः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २३७ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवः ॥' इति । नारदः-- (१)कानीनश्च सहोढश्च गूढायां यश्च जायते । तेषां वोढा पिता ज्ञेयस्ते च भागहराः पितुः ।' इति ॥ वसिष्ठः-- (२)'अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति । अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोढुः । मनुः-- (३)'या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती । वोढुस्स गर्भो भवति सहोढ इति चोच्यते । (४)उत्पद्यते गृहे यस्य न च ज्ञायेत कस्यचित् । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ दत्तः पूर्वमेवोक्तः । पैठीनसिः--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेण द्व्यार्षेयेण जाताः ते असंगतकुलीना द्व्यामुष्यायणा भवन्तीति । मनुः-- (५)भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ (६)क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा । (७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति । (८)सदृशं तु प्रकुर्यातां गुणदोषविवर्जितम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥ (९)मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति । सर्वे एते समानजातीयाः, (१०)सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् । १. ना. स्मृ १३. ४. २. व स्मृ १७. २५ ३. म. स्मृ. ९. १७३ ४. म स्मृ ९. १७० ५. म. स्मृ ९ १८२. ६. म. स्मृ. ९. १७४. ७. म. स्मृ. ९. १७७ ८. म. स्मृ. ९. १६९ ९. म. स्मृ. ९. १७१. १०. या. स्मृ. २. १३३.