आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 239, कुल 399 में से
संदर्भ में पढ़ेंअथ षष्ठः पटलः ॥ सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्माभिस्सम्बन्धः ॥ १ ॥ सवर्णा चाऽसावपूर्वा च शास्त्रविहिता चेति कर्मधारयः । सवर्णा सजातीया, ब्राह्मणस्य ब्राह्मणीत्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा अदत्ता, न विद्यते पूर्वः पतिरस्या इति । शास्त्रविहिता शास्त्रोक्तेन विवा- हसंस्कारेण संस्कृता ‘सगोत्राय दुहितरं न प्रयच्छे ( २. ११. १५ ) दित्यादिशास्त्रानुगुणा वा । एवम्भूतायां भार्यायां यथर्तु गृह्योक्तेन ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते तेषां ‘स्वकर्म ब्राह्मणस्ये’ ( २. १०. ४ ) त्यादिना पूर्वमुक्तैः कर्माभिस्सम्बन्धो भवति । ( गच्छथ इति थकारोऽपपाठः ) ॥ १ ॥ दायेन चाऽव्यतिक्रमश्चोभयोः ॥ २ ॥ उभयोर्मातापित्रोर्दायेन च तेषां सम्बन्धो भवति अव्यतिक्रमश्च । च इति चेदर्थे अव्यतिक्रमश्चेत्, यदि ते मातरं पितरं च न व्यतिक्रमे- युः । व्यतिक्रमे तु दायहानिरिति । अपर आह—‘उभयोरपि दायेन तेषां व्यतिक्रमो न कर्तव्यः । अवश्यं देयो दायस्तेभ्य इति ॥ २ ॥ पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ॥ ३॥ अन्येन पाणिग्रहणेन तद्वती पूर्ववती । असंस्कृता विवाहसंस्कारर- हिता । वर्णान्तरं ब्राह्मणादेः क्षत्रियादिः । तेषु पूर्ववत्यादिषु मैथुने सति दोषो भवति । कस्य ? तयोरेव मिथुनीभवतोः ॥ ३ ॥ तत्राऽपि दोषवान् पुत्र एव ॥ ४ ॥ तत्रेति सप्तम्यास्त्रल्(१) ‘इतराभ्योऽपि दृश्यन्त’ इति। ताभ्यामुमा- भ्यामपि पुत्र एवाऽतिशयेन दोषवान् । तत्र पूर्ववत्यामुत्पन्नौ कुण्डगोलकौ (२)‘पत्यौ जीवति कुण्डस्स्यान्मृते भर्तरि गोलक’ इति । असंस्कृतायामुत्पन्नस्य नामान्तरं नास्ति । किं तु दुष्टत्वमेव । ( ) कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः । १. पा. सू. ५. ३. १४. २. म. स्मृ. ३. १७४.