भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 238, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 238

अभिनिर्मुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः। २२७ अभिनिर्मुक्ताभ्युदितकुनखिश्यावदग्रदिधिषुदिधिषू- पतिपर्याहितपरीष्टपरिवित्तपरिविन्नपरिवि- विदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वे- षो गरीयान् गरीयान् ॥ २२ ॥ आद्यौ द्वौ गतौ। कुनखी कृष्णनखः। श्यावा दन्ता यस्य स श्यावदन् विवर्णदन्तः। '(१)विभाषा श्यावारोकाभ्यामि' ति दन्नादेशः। तस्य न लोपश्चान्दसः। ज्येष्ठायामनूढायां पूर्वं कनीयस्या वोढा अग्रदिधिषुः। पश्चादितरस्या वोढा दिधिषूपतिः। ज्येष्ठे अकृताधाने कृताधानः कनिष्ठः पर्याधाता। ज्येष्ठः पर्याहितः। ज्येष्ठे अकृतसोमयागे कृतसोमयागः कनिष्ठः परीयष्टा। ज्येष्ठः परीष्टः। अकृतविवाहे ज्येष्ठे कृतविवाहः कनिष्ठः (२)परि- वेत्तेति प्रसिद्धः। ज्येष्ठः (३)परिवित्तः। (४)ज्येष्ठस्य भार्यामुपयच्छमानः परिविन्नः। यस्मिन्नगृहीतभागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः। कनिष्ठः परिविविदानः। चकारः पर्याधातृप्रभृतीनां समुच्चयार्थः। एतेष्व- भिनिर्मुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर- निर्वेषो यः पूर्वमुक्तः तत्र तत्र गरीयान् भवति। पूर्वत्र पूर्वत्र लघी यान्। अभिनिर्मुक्ताभ्युदितयोरनन्तरोक्तं प्रायश्चित्तद्वयमपि विक- ल्पेन भवति ॥ २२ ॥ तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥ यस्मिन् कौर्नख्यादिके लिङ्गे यत् प्रायश्चित्तमुक्तं तच्चरित्वा तत् कौर्नख्या- दिकं लिङ्गमुद्धरेदित्येके मन्यन्ते। अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. पा.सू.५.४ ११८. २. परिवित्त इति प्रसिद्धः इति.ख.ङ.च पुस्तकेष्वपपाठः। ३. परिवित्ति इति ख च. पुस्तकयो. पाठः। अत्र बोधायनधर्मसूत्रव्याख्या २. १. ३. द्रष्टव्या। ४. ज्येष्ठे चागृहीतभागे कनिष्ठो भागं गृह्णाति स परिविविदानः। परिविन्न इतरः। इत्येव पाठो घ. पुस्तके।