भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 234, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 234

विवाहभेदाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२३ तत्प्रमाणं कर्तव्यम् । मानव्यो हि प्रजा इति विज्ञायते इति । गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेवेषां प्रवरा ऋषिदर्शनात् ॥ एक एव ऋषियांवत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्वभूद्भृग्वङ्गिरोगणात् ॥' इति । सुमन्तुः-- (१) पितृपत्न्यस्सर्वा मातरस्तद्भातरो मातुलाः तत्सुता मातुलसुता- स्तस्मात्ता नोपयन्तव्या' इति ॥ १६ ॥ ब्राह्मे विवाहे बन्धुशीललक्षणसम्पन्नश्रुतारोग्याणि बुध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेच्छक्ति- विषयेणाऽलंकृत्य ॥ १७ ॥ ब्रह्मणा दृष्टो ब्राह्मः । तस्मिन् विवाहे वरस्य बन्वादीन् बुध्वा परीक्ष्य प्रजां दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि कर्तुम्, प्रतिपादयेत् दद्यात् । शक्तिविषयेण विभक्तिप्रतिरूपोऽयं निपातो य- थाशक्त्येत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः। प्रजाऽसहत्वकर्मभ्य' इति पाठे प्रजार्थे सहत्वकर्मार्थे चेति ॥ १७ ॥ आर्षे दुहितुमते मिथुनौ गावौ देयौ ॥ १८ ॥ ऋषिभिर्दृष्टे विवाहे मिथुनौ गावौ स्त्रीगवी पुंगवश्च दुहितुमते देयौ । एष आर्षः ॥ १८ ॥ दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९ ॥ देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् । एष दैवो विवाहः ॥ १९ ॥ मिथः कामात्सांवर्तते स गान्धर्वः ॥ २० ॥ यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सांवर्तेते मिथुनी- भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोत्तरकालं विवाहसंस्कारः कर्तव्यः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकादशी कण्डिका ॥ ११ ॥ १. सु. स्मृ.

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 234, कुल 399 में से · BharatKosha