आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 232, कुल 399 में से
संदर्भ में पढ़ेंसगोत्रविवाहनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२१ सा प्रशस्ता द्विजातीनां (१)दारकर्मण्यमैथुनी ॥ व्यासः- (२)‘स्नात्वा समुद्वहेत्कन्यां सवर्णां लक्षणान्विताम् । यवीयसीं भ्रातृमतीमसगोत्रां प्रयत्नतः ॥ मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविज्ञाने नोद्वहेदविशङ्कितः॥ मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति ।' गौतमः- (३)‘असमानप्रवरैर्विवाहः । ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च । मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायनः—'प्रवर एषामविवाह इत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरः तेषामेवाऽविवाह' इति । कारिका च भवति- शतीयानामविवाह एषामिति येषां सूत्रकृदब्रवीत् । तेषामेव विवाहः स्यात् नान्येषामिति धारणे'ति ॥ शङ्खः(४)- 'दारानाहरेत्सद्दशानसमानार्षेयान सम्बन्धानासप्तमपञ्चमात्पितृमा- तृबन्धुभ्यः, इति । वसिष्ठः- (५)‘गृहस्थो विनीतक्रोधहर्षो गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षेयाम- स्पृष्टमैथुनामवरवयसीं भ्रातृमती सदृशीं भार्यां विन्देत । पञ्चमीं मातृ- बन्धुभ्यः सप्तमीं पितृबन्धुभ्यः' इति । हारीतः(६)— 'श्वित्री कुष्ठ्युदरी यक्ष्ममयाव्यल्पायुरनार्षेयम ब्रह्म समानार्षेयमि- त्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा भवन्तीति । आदित्यषडयज्ञियत्वादनार्षेयम् । अवेदत्वादब्रह्म । एक- कुलत्वात् समानार्षेयमिति । तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतो ऽनग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत ।' पैठीनसिः—असमानार्षेयां कन्यां वरयेत् । पञ्च मातृतः परिहरेत्सप्त पितृतः त्रीन्मातृतः पञ्च पितृतो वा' १. दारकर्मण्यमैथुनी इत्येव मेधातिथ्यादिभिः पाठोऽङ्गीकृतः । कुल्लूकभट्टस्तु 'कर्मणि मैथुने' इति । २. ४. ६. एतदङ्काङ्कितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ३. गौ.ध.४.२-५. ५. व. ध ८.१.२.