आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 231, कुल 399 में से
संदर्भ में पढ़ें२२० आपस्तम्बधर्मसूत्रे [ (५.५.)क.११. याज्ञवल्क्योऽपि- (१)'आहरेद्विधिवद्दारानग्नींश्चैवाऽविलम्बयन्।' इति । न हि वाचनिकेऽर्थे युक्तयः क्रमन्ते । तेनैतन्न चोदनीयम्-यजमानः पूर्वमन्वारम्भणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं श- क्यः । या च भार्या आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्शपूर्णमासादिष्वधिकारः । स कथं तया तैर्यष्टुमर्हतीति । अन्वारम्भ- णीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः तदा भार्यानाशे नश्य- तीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणी- यामपेक्षन्ते स्मार्तानि गार्ह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः । ननु च प्रागग्न्याधानात् कर्मभिस्सम्बध्यते गार्ह्यैस्मार्तैश्च, तत्कि- मुच्यते आधाने हि सती कर्मभिस्सम्बध्यत इति ? सत्यम्, अस्मादेव च हेतुनिर्देशादवसीयते-प्रागाधानात् सत्यामपि धर्मसम्पत्तौ प्रजास- म्पत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नाऽतीव दोष इति। अथ यस्या हिताग्नेर्भार्या सत्येव कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च मृता अनुत्पन्ना वा तस्य कथम् ? । यद्येषा युक्तिः 'धर्मप्रजासम्पन्न'इति कर्मभिस्सम्बध्यत इति च, तदा कर्तव्यो विवाहः । (न च 'प्रागग्न्याधे या' दित्यस्य विरोधः । अन्यतराभावे कार्येत्यस्यैव स शेषः । न पुनरुभ- याभावे कार्येत्यस्य । भारद्वाजसूत्रे तु यद्यप्यविशेषेणाऽहिताग्नेर्दारानुज्ञा प्रतीयते-"अथ यद्याहिताग्निः पुनर्दारक्रियां कुर्वीत यद्यग्नीनोत्सृजेत् लौकिकास्सम्पद्येरन् तस्य पुनरग्न्याधेयं कुर्वीतेत्याश्मरथ्यः, पुनराध- नमित्यालेखनः, पुनरग्न्याधेयमित्यौडुलोमि,रिति । तथापि तस्याप्यय- मेव विषयः) ॥ १४ ॥ सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥ कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय हारीतीं, वात्स्याय वात्सीमित्यादि ॥ १५ ॥ मातुश्च योनिसम्बन्धेभ्यः ॥ १६ ॥ मातुर्योनिसम्बन्धाः कन्याया मातुलादयः । चकारात् पितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनुः- (२) 'असपिण्डा च या मातुरसगोत्रा च या पितुः । १. या. स्मृ. १. ८९. ( ) एतत्कुण्डलान्तर्गतो भागो नास्ति घ. ङ. पुस्तकयोः २. म. स्मृ. ३. ५.