आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 227, कुल 399 में से
संदर्भ में पढ़ें२१६ आपस्तम्बधर्मसूत्रे [ (प.५)क. १०. कर्मणि युद्धशास्त्रे वा येषामभियोगः ते तद्योगाः ॥ ११ ॥ न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्ता- नामार्या वधं परिचक्षते ॥ १२ ॥ न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । प्राञ्जलिः कृताञ्जलिः । पराङावृत्तः पराङ्मुखः । सर्वे एते भीताः । ए- तेषां युद्धे वधमार्यास्सन्तो गर्हन्ते । परिगणनादन्येषां वधे न दोषः । तथा च गौतमः-(१)'न दोषो हिंसाया माहवे' इति । न्यस्तायुधः प्रकी- र्णकेशः इति विसर्जनीयं केचित्पठन्ति । सोऽपपाठः । पराङावृत्त इति ङकारश्छान्दसः ॥ १२ ॥ शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां शा- स्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥ यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगतास्तेषा- मिन्द्रियदौर्बल्यात् अजितेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषि- द्धेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वेषं प्रायश्चित्त- मुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्मशास्त्रेषु ॥ १३ ॥ तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजनं गमयेत् ॥ १४ ॥ तस्य चेच्छासितुः शास्त्रं शासन अतिप्रवर्तेरन् न तत्र तिष्ठेयुः राजानं गम- येत्—एवमसौ करोतीति ॥ १४ ॥ राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥ स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीय- तामसाविति ॥ १५ ॥ स ब्राह्मणान्नियुञ्ज्यात् ॥ १६ ॥ स पुरोहितः ब्राह्मणांश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुञ्ज्यात् अ- नुरूपेषु प्रायश्चित्तेषु नियुञ्जीत ॥ १६ ॥ अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह— बलविशेषेण(२) वधदास्यवर्जं नियमैरुपशोषयेत् ॥ १७ ॥ ततस्तान्नियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् ।
१. गौ. ध. १०. १९. २. अत्र विषये मानवे ८. ३८०, ३८१. श्लोकौ द्रष्टव्यौ ।