आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 228, कुल 399 में से
संदर्भ में पढ़ेंदण्डप्रणयनम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २१७ वधदास्यवर्जं वधस्ताडनादि, वध दास्यं च वर्जयित्वा सर्वमन्यत् बन्ध- नादिकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥ इत्यापस्तम्बधर्मसूत्र उज्ज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥ एवं ब्राह्मणविषये उक्तम् । इतरेषामाह — इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत् ॥ १ ॥ इतरेषां ब्राह्मणव्यतिरिक्तानां वर्णानां राजा पुरोहितोक्त दण्डं स्वयमेव प्रणयेत् तेषां कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् । अभिविधा- वाकारः ॥ १ ॥ न च सन्देहे दण्डं कुर्यात् ॥ २ ॥ अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २ ॥ किन्तु— सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ॥ ३ ॥ आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभि. शपथान्तैः सुविचितं यथा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्येत उपक्रमेत ॥ ३ ॥ एवं कुर्वतः फलमाह— एवंवृत्तो राजोभौ लोकावभिजयति ॥ ४ ॥ एवंभूतं वृत्तं यस्य स एवंवृत्तः । अत्र मनु — (१) ‘अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति(२) प्रेत्य स्वर्गाच्च हीयते ॥' इति ॥४॥ गच्छतां प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्य- त आह— राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥ ५ ॥ राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य १. म. स्मृ ८, १२८. २. नरकं चैव गच्छति इति मुद्रितपुस्तकेषु पाठः । आप० ध० २८