आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 220, कुल 399 में से
संदर्भ में पढ़ेंअतिथिपूजा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २०९ कोऽसौ मधुपर्क इत्यत आह— दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ॥ ८ ॥ (१)गृह्योक्तस्याऽनुवादोऽयमुत्तरविवक्षया ॥ ८ ॥ अभाव उदकम् ॥ ९ ॥ दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्य- न्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥ ९ ॥ वेदाध्याय इत्यत्र विवक्षितं वेदमाह— षडङ्गो वेदः ॥ १० ॥ षड्भिरङ्गैर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥ कानि तान्यङ्गानीत्यत आह— छन्दःकल्पो व्याकरणं ज्योतिषं निरुक्तं शिक्षा च्छ- न्दोविचितिरिति ॥ ११ ॥ छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीतेन न्यायप्रा- प्तेन चाऽङ्गकलापेनोपेतस्य कर्मणः प्रयोगकल्पनयोपस्करुत इति छन्दः- कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्वाचक्षाणं पद- पदार्थप्रतिपादनेन वेदस्योपकारकं विद्यास्थानम् । सूर्यादीनि ज्योतीं- ष्यधिकृत्य प्रवृत्तं शास्त्रं ज्योतिषम् । आदिवृद्ध्यभावे यत्नः कार्यः । तद- प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेषं प्रतिपादयदुपका- रकम्। निरुक्तमपि व्याकरणस्यैव कात्स्न्र्यम् । शिक्षा वर्णानां स्थानप्रयत्ना- दिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकारं शिक्षयतीति । पृषोदरादित्वाद्दीर्घः । गायत्र्यादीनि छन्दांसि यया विचीयन्ते विवि- च्य ज्ञायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादङ्गत्वम् । 'मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे । शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ॥ इति ॥ उपकारकत्वाच्च ॥ ११ ॥ १. "दधि मौध्वीत संसृज्य—त्रिवृतमेके घृतं च । पांक्तमेके धानास्सक्तूंश्च" इति गृह्ये उक्तम् । आप० ध० २७