आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 203, कुल 399 में से
संदर्भ में पढ़ें२९ आपस्तम्बधर्मसूत्रे [ (१२.) क. ४. ष्टमिच्छन्त' इति । आश्वलायनके तथा दर्शनात् (१)'दिवाचारिभ्य ने दिवा । नक्तंञ्चारिभ्य इति (बलिमाकाशे उत्क्षिपे)न्नक्त'मिति । तथा मनुः— (२)'दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ।' इति ॥ ८ ॥ एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ॥९॥ य एताननन्तरोक्तान् होमान् बलींश्च । अव्यग्र समाहितमना भूत्वा ोपदेशमुपदेशानतिक्रमेण कुरुते । य इति वचनात्तस्येति पूर्वं म्ब्यते । तस्य नित्यः स्वर्गः पुष्टिश्च 'स्वर्गपुष्टिसयुक्ता' इति यत् पूर्वमुक्त स्याऽर्थवादताशङ्का मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भ तः, न प्रबलैरपि कर्मान्तरैर्बाधनमात ॥ ९ ॥ अग्रं च देयम् ॥ १० ॥ बलिहरणानन्तरं अग्रं च देयं भिक्षवे ॥ १० ॥ अतिथीनेवाऽग्रे भोजयेत् ॥ ११ ॥ अतिथीन्वक्ष्यति । तानेवाग्रे भोजयेत् न स्वयं सह भुञ्जीत पूर्वं वा । एव- मतिथिव्यतिरिक्तानन्यानपि भोजयितव्यान पश्चादेव भोजयेत् ॥ ११ ॥ बालान्वृद्धाञ्रोगसम्बन्धान्स्त्रीश्चान्तर्वत्नीः ॥ १२ ॥ ये च गृहवर्तिनो बालादयः तानप्यग्र एव भोजयेत् । अन्तर्वत्नीरित्येव सिद्धे स्त्रीग्रहणं स्वस्रादीनामपि ग्रहणार्थम् । अन्तर्वत्नीग्रहणं (३)सर्वत्र पूजार्थम् ॥ १२ ॥ काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥ काले वैश्वदेवान्ते अन्नार्थमुपस्थितं स्वामिनौ गृहपती न प्रत्याचक्षीयाताम् अवश्यं तस्मै किञ्चिद्देयमिति ॥१३॥ अभावे किं कर्तव्यम् ? तत्राह— (४)अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥ १४ ॥
१. आश्व. गृ. १. २. २. २. म. स्मृ. ३. ९० ३ सर्वपूर्वार्थं इति घ. च. पु. ४. तृणानि भूमिरुदक वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ॥