आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 202, कुल 399 में से
संदर्भ में पढ़ेंवैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९१ अपर आह—ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्दक्षिणतो ब्रह्मसदनं तन्नेति ॥ ४ ॥ दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीन- पाणिः कुर्यात् ॥ ५ ॥ अनन्तराणां बलीनां दक्षिणत पितृलिङ्गेन ‘स्वधा पितृभ्य’ इत्यनेन बलिं कुर्यात्, प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमुत्तानं कृत्वा अङ्गुष्ठत- र्जन्योरन्तरालेन ॥ ५ ॥ रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥ पितृबलेरुत्तरतो रौद्रबलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीत्य- वाचीनपाणिरिति नाऽनुवर्तत इत्यर्थः । ‘नमो रुद्राय पशुपतये स्वाहे’ति मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायेत्येव कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उत्तरो मन्त्रो रौद्रः न पशु- पतिदैवत्य इत्याचक्षते । तेषां देशः प्राग्वोदग्वा पिण्डात् ॥ ६ ॥ तयोर्नाना परिषेचनं धर्मभेदात् ॥ ७ ॥ तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतयोरपि नाना पृथक् परिषेचनं कर्त्तव्यम् । कुतः ? धर्मभेदात् । पित्र्यस्याऽप्रदक्षिणं परिषेचनं कर्तव्यम् । इतरस्य दैवत्वात्प्रदक्षिणमिति ॥ ७ ॥ नक्तमेवोत्तमेन वैहायसम् ॥ ८ ॥ उत्तमेन ‘ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहे’(१) त्यनेन वैहायसं बलिं दद्यात् । तच्च नक्तमेव । ‘वैहायसमि’ति वचनादा काश एव बलिरुत्क्षेप्यः, न छदिष्कृते देशे । तथाच बौधायनः- (२)‘अथाऽऽकाश उत्क्षिपति ये भूताः प्रचरन्ती’ति । अपर आह—एवकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब ल्यन्तराणां रात्रौ निवृत्तिः । अन्ये तु-ऊहेन दिवा बलिं हरन्ति ‘दिवा १ अत्र “अग्नये स्वाहा” इत्यादिका. ‘ये भूताः प्रचरन्ति’ इत्यन्ता. मन्त्राः एका- ग्निकाण्डाख्यतैत्तिरीयमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः । (महाना.६७) २. बौ. गृ. १. ८.