भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 201, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 201

१९० आपस्तम्बधर्मसूत्रे [ (प्र.२.) क. ४. 'अद्भ्यः स्वाहे'त्यनेन ॥ २१ ॥ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥ २२ ॥ दशमैकादशाभ्यां 'ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा- हे'त्येताभ्यां अगारस्य मध्ये प्रागपवर्गं कर्तव्यम् ॥ २२ ॥ उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥ अगारस्य य उत्तरपूर्वो देशस्तत्रोत्तरैश्चतुर्भिः 'गृहाभ्यः स्वाहा, अवसा- नेभ्यः स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहे'त्येतैः प्रागपवर्गमित्येव ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥ शय्यादेशे कामलिङ्गेन ॥ १ ॥ शय्यादेशे 'कामाय स्वाहे'त्यनेन ॥ १ ॥ (१)देहल्यामन्तरिक्षलिङ्गेन ॥ २ ॥ देहली द्वारस्याऽधस्ताद्दारु । तस्याऽधोवेदिकेत्यन्ये । अन्तर्द्वा- रस्य च ग्रहणम् । तत्राऽन्तरिक्षलिङ्गेन 'अन्तरिक्षाय स्वाहे'त्यनेन ॥ २ ॥ उत्तरेणाऽपिधान्याम् ॥ ३॥ येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत्त- रेण मन्त्रेण 'यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वा- हे'त्यनेन ॥ ३ ॥ उत्तरैर्ब्रह्मसदने ॥ ४ ॥ अगारस्येत्यनुवृत्तेः तत्र यो ब्रह्मसदनाख्यो देशः वास्तुविद्याप्रसिद्धो (२)मध्येऽगारस्य । तत्रोत्तरैर्दशभिः 'पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहे'त्येतैः प्राग पवर्गमित्येव । १. देहिन्यामिति पाठः क. पुस्तके । २. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके ।

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 201, कुल 399 में से · BharatKosha