भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 208, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 208

गृहस्थधर्मः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९७ वातकर्म अपानवायोरुत्सर्गः । उच्चैर्भाषा महता स्वनेन सम्भाषणं केनाऽपि । हासो हसनम् । ष्ठीवनं श्लेष्मादिनिरसनम् । दन्तस्खलनं दन्तमला- पकर्षणम् । परस्परघट्टनमित्यन्ये । निःशृङ्खणं नासिकामलनिस्सारणम् । भ्रूक्षेपणं भ्रूविक्षेपः । छान्दसो ह्रस्वः । तालनं हस्तयोरास्फालनम् । निष्प्य- मङ्गुलिस्फोटनम् । इतिशब्दादन्यदपि स्वैरासनादिकम् । वर्जयेदित्यपे- क्ष्यते । एतानि मूत्रकर्मादीन्याचार्यस्य सन्निधौ न कुर्यादिति ॥ ९ ॥ दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् ॥ १० ॥ उपस्पर्शनमालिङ्गनाघ्राणादि । भाषाः सम्भाषाश्चाटुपभृतयः । एता अप्याचार्ये सन्निहिते(१) दारप्रजाविषये विस्रब्धं न कुर्यात् । ज्वरा- दिपरीक्षायां न दोषः ॥ १० ॥ वाक्येन वाक्यस्य प्रतिघातमाचार्यस्य वर्जयेच्छ्रे- यसां च ॥ ११ ॥ आचार्यवाक्यस्य समीचीनस्येतरस्य वा आत्मीयेन वाक्येन तादृशेन प्रतिघातं न कुर्यात् । श्रेयसां च अन्येषामपि प्रशस्ततराणां वाक्यं वाक्येन न प्रतिहन्यात् ॥ ११ ॥ सर्वभूतपरीवादाक्रोशांश्च ॥ १२ ॥ सर्वेषां भूतानां तिरश्चामपि । परीवादान् दोषवादान् । आक्रोशान् अश्लीलवादांश्च वर्जयेत् । परीवादस्य पुनःपुनर्वचनमतिशयेन व- र्जनार्थम् ॥ १२ ॥ विद्यया च विद्यानाम् ॥ १३ ॥ विद्यया च विद्यानां परीवादाक्रोशान् वर्जयेत् । ऋग्वेद एव श्रो- त्रसुखः, अन्ये श्रवणकटुका इति परीवादाः । तैत्तिरीयकमुच्छिष्टशाखा, (२)याज्ञवल्क्यादीनि ब्राह्मणानीदानीन्तनानि इत्याद्याक्रोश ॥ १३ ॥ यथा विद्यया न विरोचेत पुनराचार्यमुपेत्य निय- मेन साधयेत् ॥ १४ ॥ १. 'दारे प्रजाविषयेऽपि' इति क. छ पु. २. याज्ञवल्क्यादि ब्राह्मणानीदानीन्तनम् इति. क. छ. पु.

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 208, कुल 399 में से · BharatKosha