आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 191, कुल 399 में से
संदर्भ में पढ़ें१८० आपस्तम्बधर्मसूत्रे [ (प.१.) क.१. शिष्टा उपदिशन्ति ॥ १२ ॥ यत्र क चाऽग्निमुपसमाधास्यन् स्यात्तत्र प्राचीरुदी- चीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽद्भिरवोक्ष्या- ऽग्निमुपसमिन्ध्यात् ॥ १३ ॥ होमप्रसङ्गादिदमुच्यते—यत्र क्व च गार्ह्ये सामयाचारिके वा कर्म णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्वं प्राचीः प्रा गग्रास्तिस्रो रेखा विलिखेत् । तत उदीचीः उदगग्रास्तिस्रः । एव तिस्रो लेखा लि- खित्वाऽद्भिरवोक्षेत् । अवोक्ष्याऽग्निं श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु- पसमिन्धीत काष्ठैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमः, तथाप- वर्ग' इति परिभाषितम् । उपदेशक्रमाच्च प्राच्यः पूर्वं लेखा लेखनीयाः ततश्चोदीच्यः(२) । (३)प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् । अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥ (४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥ उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वाऽन्यदुपदध्यात् ॥१४॥ एतदवोक्षणशेषोदकमग्नेरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽन्य दुदकं पात्रस्थमुपदध्यात्तत्रैव ॥ १४ ॥ नित्यमुदधानान्धद्भिररिक्तानि स्युर्गृहमेधिनोव्रतम् ॥१५॥ गृहे यावन्त्युदधानान्युदपात्राणि घटकरादीनि तानि सदाऽद्भिररिक्तानि स्युः । एतदपि गृहमेधिनोव्रतम् । पुनः 'गृहमेधिनो'रिति वचनमस्मिन् कर्मणि स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति । अन्य आह—पुन 'गृहमेधिनो'रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि षयेऽपि 'सावित्र्या समित्सहस्रमादध्या' (१.२६.१.) दित्यादौ भवति । पाके तु स्त्रिया न भवति । 'उपसमाधास्य'न्निति लिङ्गस्य विवक्षित- त्वात् । आर्याः प्रथता' (२.३.१.) इत्यादौ भवतीति ॥ १५ ॥ १. आप. गृ. १. ५, ६. २. ‘एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च’ इत्याधिकं घ.ड पु. ३. प्राचीः पूर्वं दक्षिणान्तमुद्गारभ्यमालिखेत् । इति ख. च. पु. ४. अन्ये तु प्राचीर्दक्षिणारम्भमालिखन्ति इति च. पु. ।