आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 190, कुल 399 में से
संदर्भ में पढ़ेंगृहस्थधर्मा: ] उज्ज्वलोपेते द्वितीय: प्रश्न: । १७९
मेव च गृहे (१) 'एतदहर्विजानीयाद्यदहर्भार्यामावहत' इत्युक्तम् । एतस्मिन् पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रियं तत् भुञ्जीयाताम् । न तु 'नाऽऽत्मार्थ- मभिरूपमन्नं पाचये' (२-७-४) दिति निषेधस्याऽयं विषय इति । प्रतिसंव- त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविवाहस्याऽपरस्मिन्नपि संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति । प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात् प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२) यथा राज्ञामभिषेकनक्षत्र मेवं हि गृहमेधिनोर्विवाहनक्षत्रमिति ॥ ७ ॥ अधश्च शयीयाताम् ॥ ८ ॥ एतस्मिन्नहनि स्थण्डिलशायिनौ स्याताम् ॥ ८ ॥ मैथुनवर्जनं च ॥ ९ ॥ (३) मैथुनवर्जनं चैतस्मिन्नहनि कर्तव्यम् ॥ ९ ॥ श्वो भूते स्थालीपाक: ॥ १० ॥ स्थालीपाकश्च कर्तव्योऽपरेद्युः ॥ १० ॥ तस्योपचारः पार्वणेन व्याख्यातः ॥ ११ ॥ तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचित्तु सर्वमेवैतत्पर्वविषयं मन्यन्ते । तेषामुक्त्तो दोषः । 'पार्वणेन व्या ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । 'श्वो भूते स्थालीपाक' इति च व्यर्थम् । (४) 'उपोषिताभ्यां पर्वसु कार्य' इति पूर्वमेवोक्तत्वात् । 'एतदहर्विजानीया' दिति चास्य प्रयोजनं तत्पक्षे चिन्त्यम् (५) ॥ ११ ॥ नित्यं लोक उपदिशन्ति ॥ १२ ॥ लोके शिष्टाचासिद्धमेतत्कर्म नित्यं प्रतिसंवत्सरं कर्तव्यमिति शिष्टा उपदिशन्ति । अपर आह—वक्ष्यमाणं कर्म शिष्टाचारासिद्धं नित्यं सार्वत्रिक इति
१. आप गृ ८. ७ २. यथा इत्यादिग्रन्थः घ. ङ पुस्तकयोर्नास्ति । ३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप. गृ. ७. १७. ५. सूत्रस्वारस्यं तु पर्वविषयत्व एव पश्यामः ।