आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 189, कुल 399 में से
संदर्भ में पढ़ें१७८ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क. १. तथा च बौधायनः- (१)'गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥' इति । (२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २ ॥ अतृप्तिश्चाऽन्नस्य ॥ ३ ॥ सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे'ति ज्ञा- पनात् । अन्नेन तृप्तिं न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥ पर्वसु चोभयोरुपवासः ॥ ४ ॥ पक्षसन्धिः पर्व । इह तु तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दम्पत्यो- रुपवासः कर्तव्यः । उपवासो भोजनलोपः ॥ ४ ॥ अविशेषादुभयोरपि कालयो. प्राप्तावाह- औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥ यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ(४)पवस्तमेव उपवास एव । (५)'औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ; श्रौते तथा दर्शनात् (६)'न तस्य सायमश्नीया'दिति । तदिह (७)'एव मत ऊर्ध्व'मित्यादि गृह्ये यदुक्तं तत्रत्य उपवासो व्याख्यातः ॥ ५ ॥ तृप्तिश्चाऽन्नस्य ॥ ६ ॥ पर्वसु सकृद्भुञ्जानौ यावत्तृप्ति भुञ्जीयाताम् ॥ ६ ॥ यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥ 'एतस्मिन्नहनी'ति न वक्तव्यम् । प्रकृतत्वात् । यथा 'तृप्तिश्चान्नस्ये' ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्वि'ति बहुव चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी'त्येकवचनान्तेन प्रत्यवमर्शो नाऽतीव समञ्जसः । तस्माद्व्यवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थ- १. बौ ध २. ७ २४ २. अय भागो घ. पुस्तके नास्ति । ३. पा. सू. २. २. ११ ४. 'वसु, स्तम्भ' इत्यस्मादैवादिकाद्भावे के स्वार्थेऽणि च सति औपवस्तमिति रूपं, धातुनामनेकार्थत्वादभोजने वृत्तिरिति च वेदितव्यम् । ५. नामलि. का. २. ब्र व. ३८ ६. आप श्रौ. ३. ७. आप. गृ. ७. १७.