आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
DevanagariSanskritpublished399 पृष्ठ
पृष्ठ 188, कुल 399 में से
संदर्भ में पढ़ेंपृष्ठ 188
॥ श्रीः ॥ आपस्तम्बधर्मसूत्रे उज्ज्वलोपेते अथ द्वितीयः प्रश्नः ॥ पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ॥ १ ॥ पूर्वस्मिन् प्रश्ने आद्ययोः पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः । इतरेष्वष्टसु सर्वाश्रमाणां । एकादशे समावृत्तस्य । इदानीं पाणिग्रहणा- दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणिर्यस्मि(१)न्ग्रहनि गृह्यते तत्पा- णिग्रहणम्(२) । अधिशब्द ऊर्ध्वार्थे वर्तते । तस्मादूर्ध्वं गृहमेधिनोर्गृहस्था- श्रमवतोः यद्व्रतं नियतं कर्तव्यम्, जातावेकवचनम्, तदुच्यते । 'पाणि- ग्रहणादधी'ति वचने(३)'भार्यादिरग्निर्दायादिर्वे'ति शास्त्रान्तरोको वि- कल्पो मा भूदिति । 'गृहमेधिनो'रिति द्विवचनमन्यतरमरणे मा भूदि- ति(४) । वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥ कालयोर्भोजनम् ॥ २ ॥ कालयोरुभयोरपि भोजनं कर्तव्यम्—सायं प्रातश्च, नाऽन्तरेति परिसं- ख्येयम्, भोजनस्य रागप्राप्तत्वात् । मानवे च स्पष्टमुक्तम्— (५)'सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति । अन्ये तु नियमं मन्यन्ते(६) शक्तौ सत्यां गृहमेधिनोरुभयोरपि कालयोरवश्यं भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति ।
१. यस्मिन् कर्माणि इति. क ड. पु. २. चतुर्थीकर्मान्तो विवाहः इत्यधिकं ड पु ३. गौ. ध ५ ७ ४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा- नत्वाच्छाखान्तरत्वाच्च । इत्यधिकं क पु. ५. वचनमिदं मुद्रितमनुस्मृतिकोशेषु नाऽस्ति । परं तु बहुषु निबन्धेषु परं मान- वत्वेनोपन्यस्तम् । ६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्यं भोजनं कर्तव्यमिति ढ पुस्तके पाठः । आप० ध० २३