आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 22, कुल 399 में से
संदर्भ में पढ़ेंव्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ११ वदि' त्यादिगीतेन वामदेव्येन साम्ना, आङ्गिरसेन(१) 'हंसःशुचिषदि'त्यनेन एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् ॥ २ ॥ अपि वा व्याहृतिभिरेव ॥ ३ ॥ पूर्वैः सह व्याहृतीनां विकल्पः ॥ ३ ॥ अथाऽध्याप्यः ॥ ४ ॥ गतम् ॥ तत्र 'यस्य पिता पितामह' इत्युपक्रमे 'यस्ये'त्येकवचनमन्ते ऽ 'प्यध्या- प्य' इति । मध्ये तु 'ब्रह्महसस्तुताः' 'तेषामभ्यागमनं' 'तेषामिच्छता'- मिति बहुवचनम् । तत्रोपक्रमोपसंहारानुसारेण माणवकस्यैव प्राय- श्चित्तमुपनयनमध्यापन च । बहुवचन तु तथाविधमाणवकबहुत्वापे क्षमित्यवोचाम ॥ ४ ॥ अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्म- शानसंस्तुताः ॥ ५ ॥ प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं च यथाकालमिति । ते तथाविधा माणवकाः श्मशानसंस्तुताः । एतेन (२)'श्मशाने सर्वतः शम्याप्रासा' दित्यध्ययननिषेध एषामपि सन्निधौ भवति ॥ ५ ॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामि- च्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं(३)तत उदकोपस्पर्शनं पावमान्या- दिभिः ॥ ६ ॥ गतम् । पावमान्यादिभिरित्यनेनैव प्रतिपूरुषं सङ्ख्याय सम्बत्सरा- नित्येतदपि द्रष्टव्यम् ॥ ६ ॥ अथ गृहमेधोपदेशनम् ॥ ७ ॥ गृहमेधो गृह्यशास्त्रं गृहस्थधर्मो वा ॥ ७ ॥ १. हंसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमस दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्” ( तै सं. ४ २ १ ४. ) इत्याङ्गिरस ॥ २ आप. ध १ ९. ६. ३. ततस्संवत्सरमुदकोपस्पर्शनम् . इति ग . पु . ।