आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 23, कुल 399 में से
संदर्भ में पढ़ें१२ आपस्तम्बधर्मसूत्रे [ (प्र. १.) कं. २. नाध्यापनम् ॥ ८ ॥ नाध्यापनं कृत्स्नस्य वेदस्य । किं तु गुह्यमन्त्राणामेवेति ॥ ८ ॥ ततो यो निवर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥ ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताद्यो निवर्तते उत्पद्यते तस्योपन- यनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं त्रैविद्यकं ब्रह्मचर्यं चारयित्वेत्यर्थः ॥ ९ ॥ तत ऊर्ध्वं प्रकृतिवत् ॥ १० ॥ ततः यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यमिति । यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तम्, धर्मज्ञैरुहितव्यम् ॥ १० ॥ एवं ततः पूर्वेष्वपि निरूपितमुपनयनम् , अथाऽध्ययनविधिः- उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥ एवं यथाविध्युपेतस्य ब्रह्मचारिणस्तत आचार्यकुले वासो भवति । ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी । अध्ययनाङ्गानि व्रतानि चरता आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥ तत्र कालः- (१)अष्टाचत्वारिंशद्वर्षाणि ॥ १२ ॥ चतुर्णां वेदानामध्ययनकाल एषः । प्रतिवेदं द्वादश ॥ १२ ॥ पादूनम् ॥ १३ ॥ स एव कालः पादून वा प्रत्येतव्यः । पादेनोने पादूनम् । पररूपं (२)कतन्तवत् । षट्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥ अर्धेन ॥ १४ ॥ ऊनमिति (३) समस्तमप्यपेक्षते । चतुर्विंशतिवर्षाणि । प्रतिवेदं षट् ॥१४॥ १. गोपथब्राह्मणेऽथर्ववेदीये द्वितीयप्रपाठके पञ्चमब्राह्मणेऽस्य विधिर्हश्यते--'तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद्वर्षं तच्चतुर्धा वेदेषु व्यूह्य द्वादशवर्षं ब्रह्मचर्यं, द्वादशवर्षाण्यवरार्ध- मपि स्तायंश्रेयस्या शक्त्यपरम्' ( गोप. ब्रा. पू. २. ५. ) इति ॥ २. 'शकन्ध्वादित्वात्' इति घ. पु. । ३. उपसमस्तमिति ख० पु० प्राप्तसमासमपीत्यर्थः । सर्वत्राप्यपेक्षते इति. घ. पु.