भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 24, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 24

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३ त्रिभिर्वा ॥ १५ ॥ पादैरूनमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि । प्रतिवेदं त्रीणि ॥१५॥ द्वादशावराध्यंम् ॥ १६ ॥ अवराध्यंशब्दोऽवरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर- मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम् । पूर्वेणैव सिद्धे यो ब्रह्मचार्यतिमेधावितया चतुरोऽपि वेदानितोऽल्पीयसा कालेन गृह्णा- ति तेनाप्येतावन्तं कालं गुरुकुले वस्तव्यम् । (१)'विद्यया स्नासी'त्यत- स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारभ्यते । एतेन एकस्य वेदस्य त्रीणि वर्षाणि ब्रह्मचर्यमवश्य (२) भावीत्यर्थात्सिद्धम् । मनुरप्याह— (३)षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैविद्यकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥ त्रयाणां वेदानां षट् त्रिंशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टा- दश; एकैकस्य षट् । पादिकं वा त्रयाणां नव, एकैकस्य त्रीणि । ग्रहणा- न्तिकमेव वेति एकैकस्य त्रिभ्य ऊर्ध्वमनियमः, न प्रागित्यर्थो द्रष्टव्यः॥१६॥ न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ॥ १७ ॥ ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो भवति न तेन दिवसमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद- न्यत्र (४)वासेऽपि न दोषः । यद्वा भोजननिवृत्तिरेवोपवासः । परलो- कार्थ उपवासः परोपवासः स विद्यार्थस्य न भवति । नैष्ठिकस्य तु(५) दोषः । अत्र पक्षे(६)'आहिताग्निरनड्वा'निति विद्यार्थब्रह्मचारिविषयम् ॥१७॥ अथ ब्रह्मचर्यविधिः ॥ १८ ॥ ब्रह्म वेदस्तदर्थं यद्व्रतं चरितव्यं तद्ब्रह्मचर्यं तदधिक्रियते ॥ १८ ॥ आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥ “आचार्याधीनो भवे”त्युपनयनान्ते यत् संशासनं तत्सिद्धैवाचार्या- १. आप० ध १.३०.१. २. भावीत्ययमर्थस्सिद्धः । इति ख० पु० ३. मनु० स्मृ० ३. १ ४. वासो न दोषः इति क० पु० ५. न दोषः इति ख० पु० ६ आप० ध. २. ९ १३