आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 27, कुल 399 में से
संदर्भ में पढ़ेंआपस्तम्बधर्मसूत्रे [(प.१)कं२. मौञ्जी मेखला त्रिवृद्ब्राह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् ॥ ३३ ॥ मुञ्जानां विकारो मौञ्जी । त्रिवृत् त्रिगुणा । एवम्भूता ब्राह्मणस्य मेखला भ- । सा च शक्तिविषये शक्तौ सत्यां दक्षिणावृत्तानां प्रदक्षिणावृत्तानां कर्त- । तद्धितार्थे गुणभूतानामपि मुञ्जानामेवैतद्विशेषणम् ॥ ३३ ॥ ज्या राजन्यस्य ॥ ३४ ॥ स्पष्टम् ॥ ३४ ॥ मौञ्जी वाऽयोमिश्रा ॥ ३५ ॥ अथवा अयोमिश्रा क्वचित्तु कालायसेन बद्धा मौञ्जी मेखला भवति राज- न्यस्य ॥ ३५ ॥ आवीसूत्रं वैश्यस्य ॥ ३६ ॥ अविरूर्णांयुः कम्बलप्रकृतिः तत्सम्बन्धिनी ऊर्णा आवी तत्कृतं सूत्रं वीसूत्रम् । सा मेखला वैश्यस्य भवति ॥ ६६ ॥ सैरी तामली वेत्येके ॥ ३७ ॥ सैरी सीरा बाह्योक्तवद्रज्जुः । (१)तामलो मूलोक्तसंज्ञको वृक्षः तस्य चा प्रथिता तामली ॥ ३७ ॥ पालाशो दण्डो ब्राह्मणस्य नैयग्रोधस्कन्धजोऽवा(२) ङ्मुखो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उप- दिशन्ति ॥ ३८ ॥ पालाशो दण्ड इत्यादि गृह्ये(३)गतम् ॥ ३८ ॥ वासः ॥ ३९ ॥ वस्यते कौपीनमाच्छाद्यते येन तद्वासः । तल्लक्ष्यते ॥ ३९ ॥ शाणीक्षौमाजिनानि ॥ ४० ॥ १. तमालादण् तमालसंज्ञो वृक्षः तस्य• इति घ पु. २. अवाङ्मुखः' इति क. पु ३. आप० गृ. ११ १५