आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 28, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः। १७ शणस्य विकारः शाणी पटी। क्षुमा अतसी तस्या विकारः क्षौमम्। श्वेतपट्टाख्यवासोविशेष इत्यन्ये। अजिन यस्य कस्यचिन्मेध्यस्य पशोः। त्रीण्येतानि वर्णानुपूर्व्येण वासांसि ॥ ४० ॥ काषायं चैके वस्त्रमुपदिशन्ति ॥ ४१ ॥ एके आचार्या वस्त्रं त्वधोधार्यमुपदिशन्ति । वस्त्रं कार्पासम् । तच्च काषायं कषायेण रक्तम् । ब्राह्मणस्येत्यर्थाद्गम्यते । इतरयोर्वक्ष्यमाणत्वात् ॥४१॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने द्वितीया कण्डिका ॥ २ ॥ माञ्जिष्ठं राजन्यस्य ॥ १ ॥ मञ्जिष्ठया रक्तं माञ्जिष्ठम् ॥ १ ॥ हारिद्रं वैश्यस्य ॥ २ ॥ हारिद्र्या रक्तं हारिद्रम् ॥ २ ॥ हारिणमैणेयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥ एतान्युत्तरीयाणि । 'बस्ताजिन' मिति वक्ष्यमाणत्वात् इहाप्यजिन- मिति गम्यते । (१)अजिनमुत्तरमुत्तरये' त्युपनयने यदजिनमुक्तं धार्यं तद्धारिण ब्राह्मणस्य; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् । एणी मृगी तस्या विकार ऐणेयम् । (२)एण्या ढञ् । द्विविधा एण्यः कृष्णाश्च गौराश्च । अतो विशेष्यते-कृष्णमैणेयमिति ॥ ३ ॥ अस्मिन् पक्षे विशेषमाह— कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ॥ ४ ॥ कृष्णं चेद्बिभृयात् न हारिणं ततस्तस्मिन्नुपस्तीर्णे नासीत, न च शयीत । अयं तावदर्थ । शब्दनिर्वाह (३)'स्त्वधासनशायी'त्यत्र कृतः ॥४॥ रौरवं राजन्यस्य ॥ ५ ॥ रुरुर्बिन्दुमान्मृगः ॥ ५ ॥ बस्ताजिनं वैश्यस्य ॥ ६ ॥ बस्तश्छागः ॥ ६ ॥ १. आपगृ० ११ ११. २. पा सू. ४. ३. ५९ ३ आप० गृ० १. २. २१. आप० ध० ३