आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 275, कुल 399 में से
संदर्भ में पढ़ें२६४ आपस्तम्बधर्मसूत्रे [(प.८.)क.१९] दिवाच न भुञ्जीताऽन्यन्मूलफलेभ्यः ॥ १० ॥ मूलानि कन्दाः । फलान्याम्रादीनि । तेभ्योऽन्यद्दिवा न भुञ्जीत । तद्भक्ष- णे न दोषः ॥ १० ॥ स्थालीपाकानुद्देश्यानि च वर्जयेत् ॥ ११ ॥ (१)तेन सर्पिष्मता ब्राह्मणं भोजये' दित्यादौ ब्राह्मणो भूत्वा न भु- ञ्जीत अनुद्देश्यानि च पितृभ्यो देवताभ्यश्च सङ्कल्पितानि च न भुञ्जीत । ११ । सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ॥ १२ ॥ उत्तराच्छादनमुपरिवासः । तेन यज्ञोपवीतेन यज्ञोपवीतं कृत्वा भुञ्जीत । नाऽस्य भोजने "अपि वा सूत्रमेवोपवीतार्थ" इत्ययं कल्पो भवतीत्येके । समुच्चय इत्यन्ये ॥ १२ ॥ नैयमिकं तु श्राद्धं स्नेहवदेव दद्यात् ॥ १३ ॥ यन्नियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहद्रव्ययुक्तमेव दद्यात् । न शुष्कम् ॥ १३ ॥ तत्र विशेषः- सर्पिर्मांसमिति प्रथमः कल्पः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ अभावे तैलं शाकमिति ॥ १५ ॥ सर्पिषोऽभावे तैल मांसस्याऽभावे शाकम् । इतिशब्दाद्यच्चान्यदेवं युक्तम् ॥ १५ ॥ मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान् भोजयेत् ॥१६॥ मघासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिर्मिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी काण्डका ॥ १९ ॥ १. आप गृ. ७. १५.