आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 276, कुल 399 में से
संदर्भ में पढ़ेंपुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ मासि श्राद्धे तिलानां द्रोणंद्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत् ॥ १ ॥ येनोपायैनोपयोजयितुं शक्नुयात् अभ्यङ्गे, उद्वर्तने, भक्ष्ये, भोज्ये चेति तेनोपायेन मासिश्राद्धे तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म- णस्य तिलानां द्रोणं द्रोणमुपयोजयितुमशक्यत्वात् समुदितानुपयोजये त् । द्रौणंद्रोणमिति वीप्सावचनं तु प्रतिमासिश्राद्धमुपयोजनार्थमिति केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित- व्या इति ॥ १ ॥ समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥ व्याख्यातमिदम् । दद्युरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् । वचनव्यत्ययो वा ॥ २ ॥ अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाप्तेः- उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य ति- ष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराज- मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ॥ ३ ॥ पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षस्य पूर्वपक्षस्य सम्बन्धिन। तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा (१)महाराजं वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान होम । स्विष्टकृदादिजयादयः । परिषेचनान्ते तेन सर्पिष्मता स्थाली- पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेदं वचनम् । भोजयित्वा सिद्धिं वाचयीत पुष्टिरस्त्विति ॥ ३ ॥ एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥ एवमिदं स्थालीपाकश्नपणादिसिद्धिवाचनान्तमहरहः कर्तव्यमापरस्मा- त्तिष्यात् यावदपरस्तिष्य आगच्छति ॥ ४ ॥ द्वौ द्वितीये ॥ ५ ॥ १ कुबेराय वैश्रवाणाय । महाराजाय नमः। ( तै आर. १. ३१. ) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥ आप० ध० ३४