आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 279, कुल 399 में से
संदर्भ में पढ़ेंनवमः पटलः ॥ 'सर्वाश्रमाणां समयपदानि' त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः ? इत्यत आह— चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थ्यमिति ॥ १ ॥ आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्यसंज्ञा । गृहे तिष्ठति कुटुम्भरक्षणपर इति गृहस्थः । तस्य भावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुलं तत्र वासो लक्षणया सोऽप्येकः । 'मनु अवबोधन' मनुत इति मुनिर्ज्ञानपरः । तस्य भावो मौनम् । सोऽपरः । वनं प्रतिष्ठत इति वनप्रस्थः । स एव वानप्रस्थः । प्रज्ञादित्वादण् । तस्य भावो वानप्र- स्थ्यम् । इतिशब्दः परिसमाप्त्यर्थः । एतावन्त एवाऽऽश्रमा इति । चतुर्णा मेवोपदेशेऽपि चत्वार इति वचनं “(१)ऐकाश्रम्यं त्वाचार्याः प्रत्यक्ष- विधानात् गार्हस्थ्यस्ये”ति स्मृत्यन्तरोक्तं मा ग्राहीदिति ॥ १ ॥ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥ तेष्वाश्रमेषु चतुर्ष्वपि यथाशास्त्रमव्यग्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निश्रेयसार्थिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवाहितेन वर्तितव्यमिति । तथा च गौतमः—(२)'तस्याऽऽश्रमविकल्पमेके ब्रुवत' इति ॥ २ ॥ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥ उपनयनप्रभृति य आचार्यकुले वासोऽष्टाचत्वारिंशद्वर्षादिनान्यत- मस्स सर्वेषामाश्रमाणां समानः ॥ ३ ॥ सर्वेषामनूत्सर्गो विद्यायाः ॥ ४ ॥ अनूत्सर्ग. छान्दसो दीर्घः । विद्याया अनूत्सर्गोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥ ४ ॥ बुध्वा कर्माणि यत्कामयते तदारभेत ॥ ५ ॥ प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्वा गृहस्थस्यैतानि १. गौ. ध. ३. ३६. \hspace{10em} २. गौ. ध. ३. १.