भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

नवमः पटलः ॥ 'सर्वाश्रमाणां समयपदानि' त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः ? इत्यत आह— चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थ्यमिति ॥ १ ॥ आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्यसंज्ञा । गृहे तिष्ठति कुटुम्भरक्षणपर इति गृहस्थः । तस्य भावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुलं तत्र वासो लक्षणया सोऽप्येकः । 'मनु अवबोधन' मनुत इति मुनिर्ज्ञानपरः । तस्य भावो मौनम् । सोऽपरः । वनं प्रतिष्ठत इति वनप्रस्थः । स एव वानप्रस्थः । प्रज्ञादित्वादण् । तस्य भावो वानप्र- स्थ्यम् । इतिशब्दः परिसमाप्त्यर्थः । एतावन्त एवाऽऽश्रमा इति । चतुर्णा मेवोपदेशेऽपि चत्वार इति वचनं “(१)ऐकाश्रम्यं त्वाचार्याः प्रत्यक्ष- विधानात् गार्हस्थ्यस्ये”ति स्मृत्यन्तरोक्तं मा ग्राहीदिति ॥ १ ॥ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥ तेष्वाश्रमेषु चतुर्ष्वपि यथाशास्त्रमव्यग्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निश्रेयसार्थिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवाहितेन वर्तितव्यमिति । तथा च गौतमः—(२)'तस्याऽऽश्रमविकल्पमेके ब्रुवत' इति ॥ २ ॥ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥ उपनयनप्रभृति य आचार्यकुले वासोऽष्टाचत्वारिंशद्वर्षादिनान्यत- मस्स सर्वेषामाश्रमाणां समानः ॥ ३ ॥ सर्वेषामनूत्सर्गो विद्यायाः ॥ ४ ॥ अनूत्सर्ग. छान्दसो दीर्घः । विद्याया अनूत्सर्गोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥ ४ ॥ बुध्वा कर्माणि यत्कामयते तदारभेत ॥ ५ ॥ प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्वा गृहस्थस्यैतानि १. गौ. ध. ३. ३६. \hspace{10em} २. गौ. ध. ३. १.

आश्रमाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६९ कर्तव्यानि । एषामननुष्ठाने प्रत्यवायः । फलं चेदमेषाम्, एतानि शक्या- न्यनुष्ठातुं, नैतानीत्याचार्यादुपश्रुत्य यत्कर्म फल वा कामयेत तदारभेत तमाश्रमं प्रतिपद्येतेति ॥ ५ ॥ तत्र गार्हस्थ्यस्य पूर्वमेव प्रपञ्चितत्वादध्ययनानन्तर प्रतिपित्सित- स्याऽऽचार्यकुलस्य स्वरूपमाह— यथा विद्यार्थस्य नियम एतेनैवान्तमनुपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ॥६॥ यथा विद्यार्थस्य उपकुर्वाणस्य ब्रह्मचारिणः 'अथ ब्रह्मचर्यविधि'रि- त्यारभ्याऽग्नीन्धनादिनियम उक्तः, अतस्तेनैव नियमेनाऽऽन्तमाशरीरपाता- दनूपसीदतः उपसदनमेवानुपसदनं तत्कुर्वतः आचार्यकुले शरीरन्यासः परि- त्यागो भवति ब्रह्मचारिणो नैष्ठिकस्य । तत्रैवाऽऽमरणात्तिष्ठेत्, नाऽऽश्रमा- न्तरं गच्छेत् । यदि तमेवाश्रममात्मनः क्षेमं मन्येतेति मनुः— (१)'आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ एषु त्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुततः । स गच्छत्युत्तमं स्थानं न चेहाऽऽजायते पुनः ॥' इति ॥ ६ ॥ अथ परिव्राजः ॥ ७ ॥ अथाऽनन्तरं परिव्राजो धर्म उच्यते । दृष्टादृष्टार्थान् सर्वानैवाऽऽरम्भान् परित्यज्याऽऽत्मलाभाय सन्न्यासाश्रमं परिव्रजतीति परिव्राट् सन्न्यासी॥७॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ ८ ॥ अत एव ब्रह्मचर्याश्रमादेव ब्रह्मचर्यवानविप्लुतब्रह्मचर्यः प्रव्रजति परिव्रज्यां कुर्याद्यदि तथैव पक्ककषायो भवति । श्रूयते च(२) 'ब्रह्मचर्यादेव प्रव्र- जेत् गृहाद्वा वनाद्वे'ति, 'यदहरेव विरजेत्तदहरेव प्रव्रजेदि'ति च । अत्र केचिदाहुः—'अत एवे'ति वचनात् गृहाश्रमं प्रविष्टस्य तत्परित्यागेना- श्रमान्तरप्राप्तिराचार्यस्याऽनभिमतेवेति लक्ष्यते । तत्रायमभिप्रायः—दार- परिग्रहे सति 'यावज्जीवमग्निहोत्रं जुहुयादि'ति श्रुत्या विरुध्यते । स १. म. स्मृ. २४७—२४९. २. जाबालो. ४.

२७० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २१. कथं प्रव्रजेदिति । तस्मात्सत्यपि वैराग्ये काम्यस्य कर्मणः परित्यागेन नित्यानि नैमित्तिकानि च कर्माणि कुर्वन् प्रतिषिद्धानि वर्जयन् गृहस्थ एव मुच्यत इति । तथाऽऽह याज्ञवल्क्यः- (१)'न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥' इति । अथ योऽनाहिताग्निस्तस्य विरक्तस्य मुन्याश्रमप्रवेशे को विरोधः ? ऋणश्रुतिविरोधः--(२)'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्र- ह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य' इति । मनुरपि-- (३)'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥' इति । मोक्षो मोक्षाश्रमः । नन्वेवं ब्रह्मचर्यादपि प्रव्रज्या नोपपद्यते । अथ तत्र(४) 'यदहरेव विरजेदि'ति श्रुत्या युक्तं प्रव्रजितुं तदा विरक्तस्य, (५)गार्हस्थ्यादपि भविष्यति । स्मर्यते च-- (६)'प्राजापत्या निरूप्येष्टि सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादि'ति ॥ तथा यो गृहस्थो वृद्धो मृतभार्यः पुनर्दारक्रियायामसमर्थः, तस्यापि युज्यते प्रव्रज्या । तस्मा'द्यदहरेव विरजे'दि(७)त्येष एव कालः प्रव्रज्यायाः, सर्वमन्यद्विरक्तस्येति युक्तम् । एवकारस्तु सूत्रे श्रुत्यनुसारेण प्रयुक्तः । यथा 'गृहाद्वा वनाद्वे'ति ब्रुवाणैव श्रुतिर्ब्रह्मचर्यादेव प्रव्रजेदित्याह, तथेति ॥ ८ ॥ तस्योपदिशन्ति ॥ ९ ॥ तस्य परिव्राजः कर्तव्यमुपदिशन्ति धर्मज्ञाः ॥ ९ ॥ अनग्निरनिकेतस्स्यादशर्माऽशरणो मुनिः स्वाध्याय एवो- त्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्याऽनि- होऽनमुत्रञ्चरेत् ॥ १० ॥ ब्रह्मचारिणस्समिदाधानाद्यग्निकार्यं गृहस्थस्यौपासनाद्याग्निहोत्रादि वानप्रस्थस्य(८) 'श्रामणकेनाग्निमाधाये'ति विहितेऽग्नौ होमादि । तस्य १. या. स्मृ. ३. २०२. २. तै. सं. ६. ३. १० ३. म. स्मृ. ६. ३५. ४. जाबालो. ४. ५. गृहस्थस्यापि इति च. पु. ६. म. स्मृ. ६. ३८. ७. 'एक एवांश' इति ड. पु. ८. गौ. ध. ३. १७.

सन्न्यासिधर्माः ] [उज्ज्वलोपेते द्वितीयः प्रश्नः। २७१ तु नैवंविधं किञ्चिदग्निकार्यमस्तीत्यनग्निः । निकेतो निवासस्थानं स्वभूतं तदभावादानिकेतः । शर्म सुखं वैषयिकं तदस्य नास्तीत्यशर्मा । किञ्चिदपि शरणं न प्रतिपन्नः न वा कस्यचिच्छरणभूत इत्यशरणः । स्वाध्यायः प्रणवा- दिपवित्राणां जपः । अत्र बौधायनः-- 'वृक्षमूलिको वेद सन्न्यासी वेदो वृक्षस्तस्य मूलं प्रणवः प्रण- वात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति'रिति । तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रतः स्यात् । यावता प्राणा ध्रियन्ते सा प्राणवृत्तिः । तावतीं भिक्षां ग्रामे प्रतिलभ्य । एतावानस्य ग्रामे प्रवे शः । अन्यदा बहिर्वासः । इहार्थाः कृष्यादयः परलोकार्थाश्च जपहोमा- दयो यस्य न सन्ति सोऽनिहोऽनमुत्र इत्युक्तः । एवम्भूतश्चरेत् । नैकस्मिन् ग्रामे द्व्यहमपि वसेत् । अत्र गौतमः--(१)'न द्वितीयामपर्तुं रात्रिं ग्रामे वसेदि'ति (२) वर्षासु ध्रुवशील'इति च ॥ १०॥ तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥ यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहितमाच्छादनं, तद्वा- स आच्छादयेत । निर्णिज्येति गौतमः ॥ ११ ॥ सर्वतः परिमोक्षमेके ॥ १२ ॥ सर्वैरेव वासोभिः परिमोक्षमेक उपदिशन्ति । न किञ्चिदपि वासो विभृयात् । नग्न एव चरेदिति । अपर आह-- सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते । न किञ्चिदस्य कृत्यं न किञ्चिदस्य वर्ज्यमिति ॥ १२ ॥ एतदेवोदाहरणैः प्रपञ्चयति-- सत्यानृते सुखदुःखं वेदानिमं लोकममुं च परि- त्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥ सत्यं वक्तव्यमिति योऽयं नियमस्तं परित्यज्य तथा तत्र वक्तव्यमनृ तं (३) 'ताद्धि सत्याद्विशिष्यत" इत्यादिके विषये अनृतं वक्तव्यमिति योऽयं नियमस्तं च परित्यज्य । सुखं मृष्टभोजनादिजन्यम् । दुःखं शीत- वातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोकं ऐहलौकिकं काम्यं कर्म । अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मान- १. गौ. ध. ३. २१. २. गौ. ३. १३. ३ म. स्मृ. ८. १०४.

२७२ आपस्तम्बधर्मसूत्रे [ (प.९०) क.२१. मध्यात्मपटलो (१-२२. २३) क्रमन्विच्छेत् उपासीतेति। तदेवं ज्ञानबलावल- म्बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपन्य- स्तम् ॥ १३ ॥ अथैतेषामेव स्वैरचारिणां (१) किं तत्र प्रमाणम् ? तत्राह-- बुद्धे क्षेमप्रापणम् ॥ १४ ॥ आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा- पयति । श्रूयते हि-- (२)'न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने' ति (३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति च ॥ स्मर्यते च-- '(४)यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥ तदिदं निराकरोति-- तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १५॥ यानि यतेरेव कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् । तत्र मनुः- (५)क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या नि । यानि च निषिद्धानि तानि च वर्जनीयानि ॥ १५ ॥ 'बुद्धे क्षेमप्रापण' मित्येतत् प्रत्यक्षविरुद्धमित्याह- बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १६ ॥ आत्मबोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्तमन्द्योऽपि क्षुधादुःख- मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥ १. किंन्नाणम् इति. च. मु २. बृ उ ७ ४ २३. तै. ब्रा २ १२. १४ ३. छान्दो ५ २४. ३. ४. श्रीमद्भग. ग. ४, ३७ ५. म. स्मृ. ६. ४८, ५०

वानप्रस्थाश्रमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७३ एतेन परं व्याख्यातम् ॥ १७ ॥ परलोके भवमपि दुःखमेतेन व्याख्यातं-न स्वैरचारिणां निवर्तत इति । तस्मात् कर्मभिः परिपक्वकषाय एव श्रवणमनननिदिध्यासनैः साक्षा- त्कृतात्मस्वरूपः प्रतिषिद्धेषु कटाक्षमप्यनिक्षिपन्नष्टाङ्गयोगनिरतो मु- च्यत इति* । अत्र बोधायनः(१)--'एकदण्डी त्रिदण्डी वे'ति । गौतमः (२)-'मुण्डश्शिखी वे'ति ॥ १७ ॥ अथ वानप्रस्थः ॥ १८ ॥ अनन्तरं वानप्रस्थाश्रम उच्यते ॥ १८ ॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ १९ ॥ प्रव्रजति प्रकर्षेण व्रजति अपुनःप्रवेशाय वनं प्रतिष्ठिन इति । तथा च गौतमः(३) - 'ग्राम च न प्रविशेदि' ति । गतमन्यत् , उत्तरं च ॥१९॥ तस्योपदिशन्त्येकाग्निरनिकेतस्स्यादशर्माऽशरणो मु- निःस्वाध्याय एवोत्सृजमानो वाचम् ॥ २० ॥ कः पुनरेकोऽग्निः ? न तावदौपासनं,ब्रह्मचारित्वात् । तस्माल्लौकि- केऽग्नौ यथापूर्वं सायंप्रातस्समिध आदध्यादित्यर्थो विवक्षितः । अपर आह - 'श्रामणकेनाग्निमाधाये' ति गौतमः । अस्यार्थः - श्रा- मणकं नाम वैखानससूत्रम् । तदुक्तेन प्रकारेण एकोऽग्निराधेयः । तस्मिन् सायंप्रातरग्निकार्यमिति । (४)तथा च बौधायनः- 'वानप्रस्थो वैखान- सशास्त्रसमुदाचारो, वैखानसो वने मूलफलाशी तपश्शीलस्सवनेषू- दकमुपस्पृशन् श्रामणकेनाऽग्निमुपसमाधाये'त्यादि । अन्यद्गतम् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकविंशी कण्डिका ॥ २१ ॥

  • एतद्विद्वानन्तरं अत्र यदुदाहृतं 'ज्ञानेन सर्वं दह्यत' इति तत्र ज्ञानदशायाः प्रागा- र्जितानि कर्माणि प्रायश्चित्तेन ज्ञानेन वा दह्यन्त इत्युच्यते, न पुनर्शानदशायां स्वैरचारोऽनु- ज्ञायते। यस्य हि स्वशरीरेऽपि वीभत्सा स कथं परत्रादिभिरविशेषस्त्रीमङ्गमादौ प्रवर्तत' इति भागः क. पुस्तक एवास्ति अधिकपाठतया परिगणितः च. पुस्तके टिप्पण्याम् १. बौ. ध. २. २. १०. ४०. २. गौ. ध ३. २२. ३ गौ. ध. ३. ३३ ४. तथा च बौधायनः इत्यादिन्रन्थो नास्ति ङ च. पुस्तकयोः । बौ.ध.२.६.१६.१७. आप० ध० ३५

२७४ आपस्तम्बधर्मसूत्रे [(प.९)क.२२. तस्याऽऽरण्यमाच्छादनं विहितम् ॥ १ ॥ अरण्ये भवमारण्यमजिनवल्कलादि ॥ १ ॥ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् ॥ २ ॥ ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वंश्चरेच्चरणशीलः स्यात् ॥ २ ॥ अन्ततः प्रवृत्तानि ॥ ३ ॥ मूलादिभिः स्वयंगृहीतैः कञ्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयमेव पतितानि अभिनिश्रयेदिति वक्ष्यमाणेन सम्बन्धः । तान्य- भिनिश्रित्य तैर्वर्तयेदिति ॥ ३ ॥ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥ ततः कियन्तञ्चित्कालमब्भक्षः ततो वायुभक्षः तत आकाशमभि निश्रयेत् न किञ्चित् भक्षयेदिति । अभिनिश्रयण सेवनम् ॥ ४ ॥ तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ ५ ॥ संयुज्यते संश्रयत इति संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५ ॥ अथ वानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥ ६ ॥ अथेति पक्षान्तरोपन्यासे । पूर्वं ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके त्वाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्व्यं कर्मोपदिशन्ति ॥ ६ ॥ कथम् ?— विद्यां समाप्य दारं कृत्वाऽग्नीनाधाय कर्माण्यरभतै सोमावराध्यानि यानि श्रूयन्ते ॥ ७ ॥ ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावराध्यानि अवरार्धं पश्चार्धं तत्र भवोऽवरार्ध्यः सोमः अवरार्ध्यो येषां तानि सोमावराध्यानि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्यादीन् हविर्यज्ञान् सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ वि- हितानि ॥ ७ ॥ गृहान् कृत्वा सदारस्सप्रजस्सहाग्निभिर्बहिर्ग्रामाद्वसेत् ॥८॥

वानप्रस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७५ अथ ग्रामाद्वहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिर्माद्वाहिर्र्वसेत् । अस्मिन्पक्षे प्रागुक्तमेकाग्निरित्येतन्नाऽस्ति ॥ ८ ॥ एको वा ॥ ९ ॥ अथवा पुत्रेषु भार्यां निक्षिप्य स्वयमेक एव वसेत् । अस्मिन् पक्षे 'प्राजापत्यां निरूप्येष्टि'मिति परिव्राज उक्तेन न्यायेन श्रौतानग्नीनात्मनि समारोप्य श्रामणकेनाऽग्निमाधाय एकाग्निर्भवेत् ॥ ९ ॥ सिलोञ्छेन वर्त्तयेत् ॥ १० ॥ व्याख्यातः सिलोञ्छ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकु- टुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एवेत्यन्ये ॥ १० ॥ न चाऽत ऊर्ध्वं प्रतिगृह्णीयात् ॥ ११ ॥ यदा सिलोञ्छेन वृत्तिर्जाता अत ऊर्ध्वं न कुतश्चिदपि प्रतिगृह्णीयात् ॥११॥ अभिषिक्तश्च जुहुयात् ॥ १२ ॥ यदा जुहुयात्तदा अभिषिक्तः स्नातः । अनुवादोऽयं स्नाने विशेषं विधातुम् ॥ १२ ॥ शनैरपोऽभ्युपेयादभिघ्नन्नभिमुख आदित्यमु- दकमुपस्पृशेत् ॥ १३ ॥ शनैरवेगेन जलाशय प्रविशेत् । प्रविश्य चाऽभिघ्नन् हस्तेनोदकं ताड- यन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥ (१)इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥ सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरत्र तस्य ग्रहणम् ॥ १४ ॥ तस्य द्वन्द्वद्रव्याणामेक उपदिशन्ति पाकार्थं भोजनार्थं वासिपरशुदात्रकाजानाम् ॥ १५ ॥ यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्थानि कां- स्यादीनि । वासिर्द्रव्यादि । तेषां सर्वेषां वास्यादीनां चतुर्णा(२) मेकैकस्य द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकर- णविशेषो दारुमयः ॥ १५ ॥ द्वन्द्वानामेकैकमादायेतराणि दत्त्वाऽरण्यमवतिष्ठेत ॥ १६ ॥ १. 'इति विविः' इत्येव सूत्रम् च्छ. पु. २. एकैकस्यां विधायां इति च पु.

२७६ आपस्तम्बधर्मसूत्रे [(प. ९) क. २२. तेषां पाकादिसाधनानां द्रव्याणामेकैकं द्रव्यं स्वयमादायेतराणि भार्यायै दत्वा अरण्यमवतिष्ठेत उपतिष्ठेत् आश्रयेदिति ॥ १६ ॥ तस्याऽऽरण्येनैवाऽत ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च ॥ तस्य वानप्रस्थस्याऽतोऽरण्यप्रवेशादूर्ध्वं आरण्येनैव नीवारादिना होमः वृत्तिः प्राणयात्रा प्रतीक्षा अतिथिपूजा च आच्छादनं वल्कलादिना ॥ १७ ॥ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः ॥१८॥ येषु दर्शपूर्णमासादिषु पुरोडाशा विहिताः गृहस्थस्य, तेष्वस्य तत्स्थाने (१)चरव. कार्याः ॥ १८ ॥ सर्वं चोपांशु सह स्वाध्यायेन ॥ १९ ॥ सर्वं च कर्मकाण्डं साङ्गं प्रधानमुपांशु भवति पारायणब्रह्मयज्ञाध्य- यनेन सह । तदप्युपांशु कर्तव्यमिति ॥ १९ ॥ नाऽऽरण्यमभ्याश्रावयेत् ॥ २० ॥ उपांशुवचनादेव सिद्धे वचनमाभिमुख्यप्रतिषेधार्थम् । तेनाऽरण्य- स्था यथा नाऽऽभिमुख्येन शृणुयुः तावदुपांश्विति ॥ २० ॥ अग्न्यर्थं शरणम् ॥ २१ ॥ शरणं गृहं तदग्न्यर्थमेव ॥ २१ ॥ आकाशे स्वयम् ॥ २२ ॥ स्वय चाऽऽकाश एव वसेत् ॥ २२ ॥ अनुपस्तीर्णे शय्यासने ॥ २३ ॥ शयनं चाऽऽसन चाऽनुपस्तीर्णे देशे कुर्यात् न तु किञ्चिदुपस्तीर्य ॥२३॥ नवे सस्ये प्राप्ते पुराणमनुजानीयात् ॥ २४ ॥ नवे धान्ये श्यामाकनीवारादौ प्राप्ते जाते पुराणं पूर्वसञ्चितं सस्यमनु- जानीयात् परित्यजेत् । तत्र मनुः— (२)'त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥' इति ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने द्वाविंशी कण्डिका ॥ २२ ॥ १. अनवस्त्रावितानन्तरूष्मपक्वखण्डुलप्रकृतिकश्चरुः । २. म. स्मृ. ६. २५.

ब्रह्मचर्यादिप्रशंसा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७७ भूयांसं वा नियममिच्छन्नन्वहमेव पात्रेण सायंप्रातरर्थमाहरेत् ॥ १ ॥ इदमेकाकिनो वानप्रस्थस्य । भूयांसं नियममिच्छन्न सस्यं सञ्चिनुयात् । किं तर्हि ? अन्वहमेव पात्रेण येनकेनचित् सायंप्रातश्चाऽर्थमशनीयमात्रमाहरेत् वानप्रस्थेभ्य एव ॥ १ ॥ एवं कियन्तचित्कालं वर्तयित्वा— ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि- श्रयेत् । तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ २ ॥ सर्वं गतम् ॥ २ ॥ निरूपिता आश्रमाः । अथेदानों पक्षप्रतिपक्षरूपेण तेषामेव प्राधा- न्यमप्राधान्यं च निरूप्यते— अथ पुराणे श्लोकावुदाहरन्ति— अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः । दक्षिणेनाऽर्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ ३ ॥ अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन् ते अर्यम्णो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन (१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे । जायस्व म्रियस्वेत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे- णाऽर्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४॥ ये(२)तु प्रजातिं नाभ्यनन्दन् ते उत्तरायणमार्गेण (३) अर्चिरादिमार्गेण गत्वा अमृतत्वं विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पन्ते समर्थास्सम्पद्यन्ते ॥ ४ ॥ इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥


१. छा. उ ५ १०. ३–६ २. प्रजा, इति च. पु ३ छा. उ. ५. १०. १,२

२७८ आपस्तम्बधर्मसूत्रे [ (प्र. ९.) क. २३. गृहस्थादन्ये त्रयोऽपि ऊर्ध्वरेतसः। तेषामेषा प्रशंसेति ॥ ५ ॥ पुनरपि तेषामेव प्रकारान्तरेण प्रशंसा— अथाऽपि सङ्कल्पसिद्धयो भवन्ति ॥ ६ ॥ अथाऽपि अपि च सङ्कल्पादेव सिद्धयो भवन्ति तेषामूर्ध्वरेतसाम् ॥६॥ तत्रोदाहरणम् — यथा वर्षं प्रजा दानं दूरेदर्शनं मनोज- वता यच्चाऽन्यदेवंयुक्तम् ॥ ७ ॥ यदि महत्यामनावृष्टौ (१) सत्यां ‘वर्षतु देव’ इति ते कामयेरन् तदा कामवर्षी पर्जन्यो भवति । यदि वा कश्चिदपुत्रमनुगृह्णीयुः-पुत्रोऽस्य जा- यतामिति स पुत्रवानेव भवति । यदि वा (२) चोलेष्ववस्थितास्तदैव हि- मवन्तं दिदृक्षेरन् तथैव तद्भवति। मनस इव जवो येषां ते मनोजवाः तेषां भावो मनोजवता । यदि कामयेरन् अमुं देशमित्यामेव कालकलायां प्रा- प्नुयामेति, ततो यावता कालेन मनस्तं देशं प्राप्नोति तावता तं देशं प्राप्नुयुरिति । यच्चान्यदेवयुक्तम् रोगिणामारोग्यादि तदपि सङ्कल्पादेव तथा भवति ॥ ७ ॥ यस्मादेवम्— तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टा- नाश्रमानेतानेके ब्रुवते ॥ ८ ॥ तस्माच्छ्रुतितः ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’त्यादिश्रुत्यनुगतत्वा- दुक्तेन प्रकारेण प्रत्यक्षफलत्वाच्च एतानूर्ध्वरेतसामाश्रमान् विशिष्टान् गार्ह- स्थ्यादुत्कृष्टानेके ब्रुवत इति ॥ ८ ॥ तदिदं गार्हस्थ्योत्कर्षप्रतिपादनेन निराकरोति— त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयःकपालपत्नीसम्बन्धा- न्युच्चैर्नीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमा- णमिति मन्यन्ते ॥ ९ ॥ १. सत्यां इति नास्ति च. पु. २ ‘दूरेषु’ इति. छ. पु.

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७९ त्र्यवयवा विद्या त्रिविद्या त्रयो वेदाः । तां ये पाठतश्चार्थतश्च वि- दन्ति ते त्रैविद्याः । तेषु पक्षज्ञानास्त्रेविद्यवृद्धाः । तेषां (१)वेदशास्त्रविदां वेदा एव प्रमाणम् अतीन्द्रियेऽर्थे इति, निष्ठा निर्णयः । यथाह भगवान् जै- मिनिः—(२) 'चोदनालक्षणोऽर्थो धर्मः, इति(३) प्रत्यक्षमनिमित्तमि'ति च । ततश्च तत्र वेदे यानि कर्माणि श्रूयन्ते, किंलक्षणानि ? व्रीहियवादिभि- स्सम्बद्धानि "उच्चैः ऋचा क्रियते, उपांशु यजुषे'त्येवंप्रकाराणि तैर्विरुद्ध आचारः प्रमाणं न भवतीति मन्यन्ते । एतदुक्तं भवति—सर्वेषु वेदेषु सर्वासु च शाखासु अग्निहोत्रादीनि(४) विश्वसृजामयनपर्यन्तानि कर्मा- ण्येव तात्पर्यतया विधीयन्ते । अतो गार्हस्थ्यमेव श्रेष्ठम् । ऊर्ध्वरेतसां त्वाश्रमास्तद्विरुद्धा नैवाऽऽश्रयणीयाः यदि वेदाः प्रमाणमिति । तथा च गौतमः—'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्ये'ति । एवं गार्हस्थ्यं प्रशस्यते ॥ ९ ॥ श्मशानानि भेजिर इति निन्दां परिहरति— यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरु- षसंस्कारो विधीयते ॥ १० ॥ यत्तु गृहस्थानां श्मशान श्रूयते स एष नानाकर्मणामग्निहोत्रादीना- मन्ते पितृमेधाख्यः पुरुषसंस्कारो विधीयते । न तु पिशाचा भूत्वा श्मशानमेव सेवन्त इति ॥ १० ॥ कुत इत्याह— ततः परमनन्त्यं फलं स्वर्ग्यशब्दं श्रूयते ॥१२॥ ततः परं श्मशानकर्मणोऽनन्तरम्, अनन्त्यमपरिमितं स्वर्गशब्दवा- च्यं फलं श्रूयते—'स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेती'ति । अनन्त्य स्वर्ग्यमिति(५) यकारश्छान्दसः उपजनः अपपाठो वा ॥१२॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने त्रयोविंशी कण्डिका ॥२३॥ १. वेदशास्त्रार्थविदा इति छ. पु. २ जै. सू १. १. २. ३. जै सू १. १. ४. ४. सहस्रवत्सरसाध्य सत्र विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति मीमांसकाः । पू. मी. ६. ७. ३१ ५. यकारोपजनच्छान्दसः इति भवितुं युक्तम् ।

२८० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २४ पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति— अथाप्यस्य प्रजातिममृतमाम्नाय आह--प्रजामनु प्रजायसे तदु ते मर्त्याऽमृतमिति ॥ १ ॥ अथाऽपि अपि च अस्य गृहस्थस्य प्रजापतिं प्रजासन्तानम् अमृतम् अम- रमणम् आम्नायो वेद आह हे मर्त्य मरणधर्मन् ! प्रजां जायमानामनु त्व प्रजायसे त्वमेव प्रजारूपेण जायसे । तदेव ते मरणधर्मिणः अमृतममरणमिति । न त्व म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १ ॥ उपपन्नं चैतदित्याह— अथाऽपि स एवाऽयं विरूढः पृथक्प्रत्यक्षेणोपल- भ्यते दृश्यते चाऽपि सारूप्यं देहत्वमे- वाऽन्यत् ॥ २ ॥ अपि च स एवाऽय पृथग्विरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्य द्वयोः । देहमात्रं तु भिन्नम् । देहत्वमिति स्वार्थिकस्त्वः ॥ २ ॥ यदि पुत्ररूपेणाऽवस्थानं, किमेतावतेत्याह-- ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गं च वर्धयन्ति ॥ ३ ॥ ते पुत्राश्शिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिताः पूर्वेषा पितृपिता- महादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्ति स्वर्ग च वर्धयन्ति—अ स्याऽयं पुत्र एवं कर्मा, अस्याऽय पौत्र इति । स्वर्गं च वर्धयन्ति । कीर्ति- मतां हि स्वर्गवासश्श्रूयते ॥ ३ ॥ एवमवरोऽवरः परेषाम् ॥ ४ ॥ एवमनेन प्रकारेण अवरोऽवर परेषां कीर्तिं स्वर्गं च वर्धयति ॥ ४ ॥ आभूतसम्प्लवात्ते स्वर्गजितः ॥ ५ ॥ भूतसम्प्लवो महाप्रलयः । आ तस्मात्ते पुत्रिणस्स्वर्गजितो भवन्ति ते च ५ पुनस्सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ॥६॥ प्रलयानन्तरं सर्गः, तत्र संसारस्य बीजार्थाः प्रजाार्थाः प्रजापतयो भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेतं द्वितीयः प्रश्नः । २८१ अथाऽपि प्रजापतेर्वचनम् ॥ ७॥ अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गार्हस्थ्यमेव वरि- ष्ठमिति ॥ ७ ॥ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञ- मनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं- सन्निति ॥ ८ ॥ त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजातिं प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यज्ञमग्निहो- त्रादिकं सोमयागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित् तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः । अन्यत्तु ऊर्ध्वरेतसामाश्रमादिकं प्रशंसन् पुरुषो रजः पांसुर्भूत्वा ध्वंसते नश्यति । इतिशब्दो वचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेषां कीर्तिं स्वर्गे च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना अकीर्तिं नरकं च वर्धयेयुः ॥ ८ ॥ तत्राऽऽह-- तत्र ये पापकृतस्त एव ध्वंसन्ते यथा पर्णं वनस्पतेर्न परान् हिंसन्ति ॥ ९ ॥ तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव ध्वंसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पर्णं वनस्पतेः कीटादिभिर्दूषितं तदेव पतति, न वनस्पतिं शाखान्तरं वा पातयति तद्वत् ॥ ९ ॥ एतदेवोपपादयति-- नाऽस्याऽस्मिँल्लोके कर्मभिस्सम्बन्धो विद्यते तथा परस्मिन् कर्मफलैः ॥ १० ॥ अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः ॥ १० ॥ तदेतेन वेदितव्यम् ॥ ११ ॥ आप० ध० ३६

२८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क.२४. यदुक्तं ये पापकृतस्त एव ध्वंसन्ति न परान् हिंसन्तीति तदर्थरू- पमेतेन वक्ष्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥ प्रजापतेर्ऋषीणामिति सर्गोऽयम् ॥ १२ ॥ प्रजापतेर्हिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामयं सर्गो देवादिरित्ये- गन्तः। ते चाऽध्वस्ता एव स्वे स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः स्वयं ध्वंसमानाः परामपि ध्वंसयेयुः, तदैतन्नोपपद्यते--पुण्यकृतः सुखे- नाऽद्यापि वर्तन्ते इति ॥ १२ ॥ अत्रोदाहरणमाह- तत्र ये पुण्यकृतस्तेषां प्रकृतयःपरा ज्वलन्त्य उपलभ्यन्ते ॥ १३ ॥ तत्र स्वर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः ज्वलन्त्यः दीप्यमाना उपलभ्यन्ते, दिवि यथा सप्तर्षिमण्डलम्। श्रूयते च(१) 'सुकृतां वा एतानि ज्योतींषि, यन्नक्षत्राणी'ति । इदमपि प्रमाणं न पुत्राणां ध्वंसे पूर्वेषां प्रध्वंस इति ॥ १३ ॥ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त- वन्तं लोकं जयति सङ्कल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥ कर्मावयवेन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीव्रेण कश्चिदूर्ध्वरेतास्सहशरीरेणाऽन्तवन्तं लोकं जयतीति यत्तत् स्यात् सम्भ- वेदपि । यच्च सङ्कल्पादेव सिद्धिरस्यादिति, तदपि स्यात् न तु तदाश्रमाणां ज्यैष्ठ्यकारणमिति । तदेव 'मैकाश्रम्यं त्वाचार्या' इत्यय- मेव पक्षः स्थापितः। अन्ये मन्यन्ते-सर्वे आश्रमा दूषिता भूषिताश्च। ततस्तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्येतदेव स्थि- तमिति ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विंशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायां उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥ १. तै. सं. ५. ५ १.

अथ दशमः पटलः ॥ व्याख्यातास्सर्ववर्णानां साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १ ॥ उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृबुद्धिसमाधानार्थम् । अहिंसासत्यास्ते- यादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापना- दयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्यादयो वैश्यस्य । शुश्रूषा शूद्रस्य । राजाऽत्राभिषिक्तो विविक्षितः । तस्यैव हि वक्ष्यमाणं धर्मजातं सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति द्वितीयान्तपाठस्तु युक्तः ॥ १ ॥ दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥ २ ॥ वेश्म गृहं पुरं नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थप- त्यादिभिः । दक्षिणपार्श्वे द्वारं यस्य तत्तथोक्तम् ॥ २ ॥ अन्तरस्थां पुरि वेश्म ॥ ३ ॥ सर्वेषामेव प्राकाराणां मध्ये या पूस्तस्यामन्तरस्था पुरि वेश्म मापये- दात्मनः ॥ ३ ॥ तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ॥ ४ ॥ तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यस्मिन्नि- त्यावसथः आस्थानमण्डपः । तस्यामन्त्रणमिति संज्ञा(१) ॥ ४ ॥ दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं सन्दृश्येत बहिरन्तरं चेति ॥ ५ ॥ दक्षिणेनेत्येनबन्तम् । पुरमिति(२)'एनपा द्वितीये'ति द्वितीयान्तम् ! पुरस्य दक्षिणतः अदूरे सभा कारयितव्या । दक्षिणोदग्द्वारा दक्षिणस्यामु- त्तरस्यां च दिशि द्वारं यस्यास्सा तथोक्ता । किमर्थमुभयत्र द्वारमिति चेत् । यद्वहिर्वृत्तं यच्चाऽभ्यन्तरं तदुभयमपि यथा सन्दृश्येतेत्येवमर्थ- मिति । सैषा द्यूतसभा । तस्यां द्यूतार्थिनः प्रविशन्तीति तदायस्थानं राज्ञः ॥ ५ ॥ १. तत्र ह्यातिथय आमन्त्र्यन्ते इत्यधिकः पाठः घ. पु. २. पा. सू. २. ३. ३१.

२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५. सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥ वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न- योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥ अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥ तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात- र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥ आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ- निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्‍वासयितुं न शक्नोति श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१) तक्रादि ॥ ९ ॥ गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा- दनादिषु तान्नाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव- सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः । एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् । बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति, तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः । तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.

राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८५ सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षान्नियपेद्युग्मान् वैभीतकान् यथार्थान् ॥ १२ ॥ पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम्। तत् पूर्वं काष्ठादिना उद्धन्ति उद्धृत्याऽवोक्षति। अवो- क्ष्य तत्राऽक्षान्युग्मसंख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान् यथार्थान् यावद्भिर्द्यूतं निर्वर्तते, तावतो निवपति। कः? यस्तत्र राज्ञा नियुक्तः सभिको नाम ॥ १२ ॥ आर्याः शुचयस्सत्यशीला दीवितारस्स्युः ॥ १३ ॥ आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीव्ये- युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पणं सभिकाय दत्वा गच्छेयुः । स च राज्ञे तमायपहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्यः- (२)'ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्त कितवादितराद्दशकं शतम् ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेज्जैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति ॥ १३ ॥ आयुधग्रहणं वृत्तगीतवादित्राणीति राजाधीने- भ्योऽन्यत्र न विद्येरन् ॥ १४ ॥ आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विद्येरन् न भवेयुः । उत्सवादिष्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥ क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥ यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति स एव राजा क्षेम- कृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥ १५ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ १. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९; २००

२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥ ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा- त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया- पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥ एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य- मानास्तनुत्यजः ॥ ३ ॥ प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान प्रजागुप्तये निदध्यात् ॥ ४ ॥ आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥ तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥ तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव स्युः ॥ ५ ॥ सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥ सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि- त्यपपाठः ॥ ६ ॥ क्रोशो ग्रामेभ्यः ॥ ७ ॥

.राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ ग्रामेभ्यस्तु सर्वासु दिक्षु क्रोशो रक्ष्यः। ग्रामेभ्यः इति (१) यतश्चाऽध्व- कालपरिमाणं तत्र पञ्चमी वक्तव्ये'ति पञ्चमी ॥ ७ ॥ तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामि भ्यस्तत्प्रतिदद्यु राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठ्यं वकारं पठन्ति ॥ ८ ॥ धर्म्यं शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२)'विंशतिभागश्शुल्कः पण्ये' इति। यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा । एष धर्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु विशेषस्तैनेवोक्तः-(३)'मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षष्ठि- क्य'मिति ॥ ९ ॥ अकरः श्रोत्रियः ॥ १० ॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्याँः ॥ १० ॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात् प्रतिलोमादिखियो दाप्याः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥ व्यञ्जनानि श्मश्रूवादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्था वसन्ति ॥ १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा अकराः ॥ १३ ॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः । धर्मपरा, अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र- सिद्धये तपस्तप्यन्ते ते अकरा मा भुवंन्निति ॥ १४ ॥ १. पा. सू. (वा) १. ४. ३१. २. गौ. ध १०. २६. ३. गौ. ध. १०. २७.