आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
२४८ आपस्तम्बधर्मसूत्रे [ (प.६.) क. १५ ] नाऽनुपेतः ॥ १८ ॥ आन्नप्राशनाद्गर्भा नाऽप्रयता भवन्ति ॥ १९ ॥ अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शेऽपि । गौतमस्तु अपां मार्जनादिकमिच्छति । यथाह (१)'अन्यत्राऽपां मार्जनप्र- धावनावोक्षणेभ्यः' ॥ १९ ॥ आ परिसंवत्सरादित्येके ॥ २० ॥ यावत् संवत्सरो न परिपूर्यते तावन्नाप्रयता गर्भा इत्येके मन्यते॥२०॥ यावता वा दिशो न प्रजानीयुः ॥ २१ ॥ यावद्दिग्विभागज्ञानं नाऽस्ति तावन्नाऽप्रयता भवन्ति ॥ २१ ॥ (२)ओपनयनादित्यपरम् ॥ २२ ॥ उपनयनादर्वाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥ अत्रोपपत्तिः— अत्र ह्याधिकारश्शास्त्रैर्भवति ॥ २३ ॥ हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥ सा निष्ठा ॥ २४ ॥ उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसमानाधिकरण्यात् स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥ स्मृतिश्च ॥ २५ ॥ अस्मिन्नर्थे स्मृतिरपि भवति—(४)उताऽब्रह्मचारी यथोपपादमूत्रपु- रीषो भवति नाऽस्याऽचमकल्पो विद्यते इति (५)'प्रागुपनयनात्काम- चारवादभक्ष' इति गौतमः ॥ २५ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥ १. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयनादित्येके इति घ. ३ घ. पुस्तके 'भवतीति'इतीतिकरणान्तं सूत्रं पठित्वा'इति करणे हेतौ' इति व्याख्यातम् । ४. 'उते'त्यादि 'विद्यत'इत्यन्तं घ. पुस्तक एवास्ति । ५. गौःध. २. १.
अथ सप्तमः पटलः ॥ सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क- र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव- न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि- श्चेयसाय च ॥ १ ॥ (२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा. कर्मभिः श्रौतैस्स्मार्तैर्गार्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क- र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म- णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा- द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च- तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य चकारः। अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः फलमिति ॥ १ ॥ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥ तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा- स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क- रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र- धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥ मासि मासि कार्यम् ॥ ३ ॥ तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः। १. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु. ३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु. ४. 'प्रधानतत्व' इति च पु. आप० ध० ३२
२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६. अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥ अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥ तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ५ ॥ यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त- तरम् ॥ ५ ॥ सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति । कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥ सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥ कोऽसावित्याह— प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥ यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री- प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥ द्वितीये स्तेनाः ॥ ८ ॥ जायन्ते चोराः पुत्राः ॥ ८ ॥ (२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥ (३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥ चतुर्थे क्षुद्रपशुमान् ॥ १० ॥ क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४) कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥ पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥
१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु. २. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः । ३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह— तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके । ४ कर्तुंनुवाद०, इति घ. पु ।
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१ पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव- त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥ षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥ अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥ सप्तमे कर्षे राद्धिः ॥ १३ ॥ कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥ अष्टमे पुष्टिः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ नवम एकखुराः ॥ १५ ॥ अश्वादयः ॥ १५ ॥ दशमे व्यवहारे राद्धिः ॥ १६ ॥ व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥ एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥ कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥ द्वादशे पशुमान् ॥ १८ ॥ द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ति ॥ १९ ॥ त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥ चतुर्दश आयुष्ये राद्धिः ॥ २० ॥ संग्रामे जय. ॥ २० ॥ पञ्चदशे पुष्टिः ॥ २१ ॥ १. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु । २. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।
२८२ आपस्तम्बधर्मसूत्रे [,(प्र.७)क. १६, स्पष्टम् ॥ २१ ॥ तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो मूलफलानि च ॥ २२ ॥ तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥ स्नेहवति त्वेवाऽन्ने तीव्रतरा पितॄणां प्रीतिर्द्रा- घीयांसं च कालम् ॥ २३ ॥ यद्वा तद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ- णां तीव्रतरा प्रकृष्टतरा प्रीतिर्भवति । सा च द्राघीयांस च कालमनुवर्तते ॥ तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥ धर्मार्जितं यद्द्रव्यं पात्रे च प्रतिपादितं तेनाऽपि तथा तीव्रतरा पितृ णां प्रीतिर्दीघीयांस च कालमिति ॥ २४ ॥ संवत्सरं गव्येन प्रीतिः ॥ २५ ॥ उत्तरत्र मांसग्रहणादिहापि मांसस्य ग्रहणम् । गव्येन मांसेन संवत्सरं पितॄणां प्रीतिर्भवति ॥ २५ ॥ भूयांसमतो माहिषेण ॥ २६ ॥ माहिषेण मांसेन, अतः सम्वत्सरात् भूयास बहुतरं कालं पितॄणां प्रीतिर्भवति ॥ २६ ॥ एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥२७॥ एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा- दीनां मांसं मेध्यं व्याख्यातम्—पितॄणां प्रीतिकरमिति । मेध्यग्रहणं प्रति- षिद्धानां मा भूदिति ॥ २७ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५३ खड्गोपस्तरणे खड्गमांसेनाऽऽनन्त्यं कालम् ॥ १ ॥ खड्गचर्मोपस्तरणेष्यासनेषूपविष्टेभ्यो ब्राह्मणेभ्यो दत्तेन खड्गमां- सेनानन्तं कालं प्रीतिर्भवति । आनन्त्यमिति पाठे स्वार्थे ष्यञ् ॥ १ ॥ तथा शतबलेर्मत्स्यस्य मांसेन ॥ २ ॥ शतबलिर्बहुशल्यको रोहिताख्यः ॥ २ ॥ वार्ध्रीणसस्य च ॥ ३ ॥ व्याख्यातो वार्ध्रीणसः । तस्य मांसेनाऽऽनन्त्यं कालं प्रीतिर्भवति ॥ ३ ॥ प्रयतः प्रसन्नमनास्सृष्टो भोजयेद्ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् ॥ ४ ॥ प्रयतः स्नानाचमनादिना शुद्धः । प्रसन्नमनाः अव्याकुलमनाः । सृष्टः उत्सा- हवान् । (१)'सृष्टश्चेद्व्राह्मणवधे हत्वाऽपी'तिदर्शनात् । (२)'वृत्तिसर्गताय- नेषु क्रमः' इत्यत्र च सर्गे उत्साहः । एवम्भूतो ब्राह्मणान् भोजयेत् । कीदृ- शान्? ब्रह्मविद आत्मविदः । योन्यादिभिरसम्बन्धान् योनिसम्बन्धा मातु- लादयः । गोत्रसम्बन्धा सगोत्राः । मन्त्रसम्बन्धा ऋत्विजा याज्याश्च । अन्ते- वासिसम्बन्धाश्शिष्या आचार्याश्च ॥ ४ ॥ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ॥ यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल- भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्यः किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५ ॥ एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥ एतेन सोदर्येण अन्तेवासिनः बहुवचननिर्देशात् पूर्वत्र निर्दिष्टा योन्या- दिभिस्सम्बन्धास्सर्व एव व्याख्याता.—अन्येषामभावे समुदेता भोजयि- तव्या इति । अत्र मनुः— (३)'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्तु विज्ञेयः सदा सद्भिरनुष्ठितः ॥ १. गौ ध. २२. ११. २. पा. सू. १ ३. ३८. ३. म. स्मृ. ३. १४७,
२६४ आपस्तम्बधर्मसूत्रे [ (प.७.) क. १७. (१)मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं(२) विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥' इति॥६॥ अथाप्युदाहरन्ति ॥ ७ ॥ सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मज्ञा वचनमुदाहरन्ति ॥ ७ ॥ सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ ८ ॥ परस्परं भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः पिशाचभिक्षायाः । नैषा पितॄन् गच्छति नाऽपि देवान् । किं तु क्षीणपुण्या परलो- कप्रयोजनरहिता सती इहैव चरति लोके यथा गौर्मृतवत्सा गृहाभ्यन्तर एव चरति न बहिर्गच्छति तद्वदेतत् ॥ ८ ॥ तद्व्याचष्टे— इहैव सम्भुञ्जतीति दक्षिणा कुलात्कुलं विनश्यतीति ॥ ९॥ सम्भुञ्जती परस्परभोजनस्य निमित्तभूता दक्षिणा श्राद्धे दानक्रिया गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥ ९ ॥ अथ बहुषु तुल्यगुणेषूपस्थितेषु कः परैर्ग्राह्यः ? तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ १० ॥ यो वयसा वृद्धस्स तावद्ग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि- प्समानश्च भवति स ग्राह्यः(३) । अद्रव्यकृशोऽपि अवृद्धोऽपि, द्वयोस्तु समवाये यथारुचीति ॥ १० ॥ पूर्वेद्युर्निवेदनम् ॥ ११ ॥ श्राद्धदिनात्पूर्वेद्युरेव ब्राह्मणेभ्यो निवेदयितव्यम्—श्वः श्राद्धं भविता तत्र भवताऽऽहवनीयार्थे प्रसादः कर्तव्य इति ॥ ११ ॥ अपरेद्युर्द्वितीयम् ॥ १२ ॥ अपरेद्युः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य श्राद्धमिति ॥ १२ ॥ १. म स्मृ. ३. १४८. २. विट्पतिर्जामाता । ३. यद्वा वयो वृद्धो ग्राह्योऽद्रव्यकृशोऽपि । द्रव्यकृशोऽप्यवृद्धोऽपीति । इति पाठः च. पु. ।
श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ तृतीयमामन्त्रणम् ॥ १३ ॥ आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीयं भवति॥१३॥ त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥ न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्आ वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥ यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥ येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥ सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥ सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद- नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् । तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव- राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥ प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥' इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः । तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं, प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी १. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. । ३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः । ४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. । ५. आश्व. गृ. ४ ८ ३. ।
२६६ | आपस्तम्बधर्मसूत्रे | [ (प्र.७.) क. १७. व्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थ्यात् सर्वेषामपि भवति ॥ १७ ॥ 'उद्ध्रियतामग्नौ च क्रियता' मित्यामन्त्रयते ॥ १८ ॥ होमकाल 'उद्ध्रियतामग्नौ च क्रियतामि'त्यनेन मन्त्रेण ब्राह्मणान्मन्त्रयते। मन्त्रे(१)'अधीष्टे च'ति लोट्प्रत्ययः ॥ १८ ॥ 'काममुद्ध्रियतां काममग्नौ च क्रियता'मित्यतिसृष्ट उद्धरेज्जुहुयाच्च ॥ १९ ॥ अथ ब्राह्मणाः काममुद्ध्रियता काममग्नौ च क्रियतामित्यतिसृजेयुः अनु- जानीयु.। तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्मणार्थे पक्वाद्न्ना- दन्यस्मिन् पात्रे पृथक्करणम् । तत्सूत्रकारेण ज्ञापितमष्टकाश्राद्धे ॥१९॥ श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते ॥ २० ॥ (श्वभिरिति बहुवचनात् ग्रामशूकरादीनां तादृशानांग्रहणम् ।) अप- पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गर्हन्ते शिष्टाः । अतो यथा ते न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥ श्वित्रश्शिपिविष्टः परतल्पगाम्यायुधीयपुत्रश्शू- द्रोत्पन्नो ब्राह्मण्यामित्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषणा भवन्ति ॥ २१ ॥ (३)श्वित्रश्वित्री श्वेतकुष्ठी । शिपिविष्टः खलतिः । विवृत्तशेफ इत्यन्ये । पर- तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र. क्षत्रियवृत्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डालः। न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद' इत्यु- क्तत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शूद्रायां पूर्वमुत्पाद्य पश्चात् ब्राह्मण्यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्यामिति । स हि पिता शूद्रः सम्पन्नः । श्रूयते हि(४)'तज्जाया जाया भवति यदस्यां जायते पुनर्दि'ति । स्मर्यते च- (५)'यदुच्यते द्विजातीनां शूद्राहारपरिग्रहः । न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥' इति । १. पा सू. ३. ३. ११६. ( ) कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति । २. 'परिश्रितेन' इति. क. च. पु. । ३. श्वित्री. म श्वित्री कुष्ठी. इति घ. पु. । ४. ऐ. बा. ७. ३. १३. ५. या. स्मृ. १. ५७. ।
श्राद्धीयब्राह्मणः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५७ (१)एते श्विव्यादयः श्राद्धे भुञ्जानाः पङ्क्ति दूषयन्ति । अतस्ते न भोज्या इति ॥ २१ ॥ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्ये- ष्ठसामिको वेदाध्यायनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति ॥२२॥ 'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यृचं त्रयो मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्णं (३) 'चतुष्कपर्दा युवति सुपेशा' इत्यादिकस्तृचो बाह्वृचः । अन्ये तु तैत्तिरीयके (४) 'ब्रह्म मेतु मा'मित्यादयः त्रयोऽनुवाका इत्याहुः । तत्र हि 'य इमं त्रिसुपर्णम- याचितं ब्राह्मणाय दद्यादि'ति श्रूयते 'आसहस्रात् पङ्क्ति पुनन्ती'ति च । पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेताऽग्निर्बह्वीषु शाखासु विधीयते (५)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणेन सह स त्रिणाचिकेत (६)नाचिकेताग्निश्श्वेतव्येत्यन्ये । विरजानुवाकाध्यायित्यन्ये, (७)- प्राणापानेत्यादि । चतुर्मेधः अश्वमेधः, सर्वमेधः, पुरुषमेधः, पितृमेध, इति चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णां यज्ञानामाहर्तेत्यन्ये । पञ्चाग्निः १. इतः पूर्वं वृषलीपतिः वृषली शूद्रकन्या अदत्ता रजस्वला च वृषली तस्याः पतिः निषिद्धद्रव्यविक्रेता तिलकम्बलरसविक्रेता । राजभृत्य. राज्ञस्सकाशात् भृतिं वेतनं गृह्णाति स राजभृत्य. ॥ ब्राह्मणायमेवोत्पन्नस्सन् यस्योत्पादयिता सन्दिग्धः स तदुत्पन्न एवेति । शिपिविष्टादयः श्राद्धे भुजाना ,... इति पाठो घ. पुस्तके । २. मधु वाता ऋतायते, मधु नक्तमुतोषसि, मधुमान्नो वनस्पति.(तै. सं. ४. २. ९.) इति तिस्र ऋचः त्रिमधु. । ३ चतुष्कपर्दा युवतिः, एकस्सुपर्णस्ससमुद्रम्, सुपर्णं विप्राः, इति तिस्र. ऋचः (ऋ. सं. ८. ६. १६.) ४ ब्रह्ममेतु माम्, ब्रह्ममेधया, ब्रह्ममेधवा, तै. आ. ( महानारायणोपनिषदि. ) ( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः । ५. तैत्तिरीयके. ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः । कठोपनिषदि प्रथ- मादितिष्रु वल्लीषु, शतपथे । ६. नाचिकेताग्निस्त्रैश्चेतेत्यन्ये, इति. च. पु. ७. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं स्वाहा. (तै. आ. ( महाना. ) ९५ ) इत्यादिः विरजानुवाकः । आप० ध० ३३
२५८ आपस्तम्बधर्मसूत्रे [(प्र. ७) क. १९.
सभ्यावसथ्याभ्यां सह ।(१)पञ्चानां काठकाग्नीनामध्येता वा । ज्येष्ठसाम तलवकारिणां प्रसिद्धं उदु त्य,चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ- समागः । ज्येष्ठसामिक इति पाठे व्रीह्यादित्वात् ठन् । वेदाध्यायी स्वाध्या- यपरः । अनूचानपुत्रः त्रैविद्यपुत्रः । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थं द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पङ्क्तिं शोधयन्ति । वेदाध्यायीत्यस्यानन्तर मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चाग्नीत्यविभक्तिकपाठो व्याख्यातः ॥ २२ ॥ न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥ श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्तमियात् तदा श्राद्धशेषं न कुर्वीत, अपरेद्युर्दिवैव कुर्वीतेति ॥ २३ ॥ आरब्धे चाऽभोजनमासमापनात् (अन्यत्र राहुदर्शनात्) ॥ २४ ॥ पूर्वेद्युर्निवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तुर्भोजनप्रतिषेधः । अ- नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । ‘न च नक्त’मित्यस्यापवादः राहु- दर्शने नक्तमपि कुर्वीतेति । उदीच्यास्त्वेतत्प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् । प्रत्युत ‘न च नक्त’मित्येतत् सोमग्रहणविषयमिति व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम्॥२४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तदशी कण्डिका ॥ १७ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥
१. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या० पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु समन्त्रका आम्नाता० पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या- ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः ।
अथाष्टमः पटलः ॥ विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीतमलम्। यस्य दध्नो हस्तादिना मन्थनमात्रं न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुकाः- (१)'तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्'ति । यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमांसे प्रसिद्धे । मांस- मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनार्यसम्मताः ॥ २ ॥ कृष्णधान्यं(२)माषादि । न कृष्णा व्रीहयः । शूद्रान्नं पक्कमपक्वं च । ये चान्येऽनार्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्यं कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥ ३ ॥ स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशै- तानि वर्जयेत् ॥ ४ ॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ- नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादे- रपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृश- न्नग्निकृद्वृत्तिरच्छाद्योपगतस्थानासनिकस्सं- वत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्स- म्मितमित्याचक्षते ॥ ५ ॥ १. अमरको. २. का. वै. ५३. २. कुलुत्थादि इति घ. च. पुस्तकयो , कृष्णकुलुत्थादि. इति ड. पु. ३. 'अहविष्यं'मित्यादि 'वर्जये' दित्यन्तमेकसूत्रं क. पुस्तके परम् ।
४. द्वितीय प्रश्न (पटल ६-८): राजधर्म व दण्ड-नीति
२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि- पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात् कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् । एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो जनमिति । अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति । तथा च बौधायनः— (१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः । तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति- पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥ नित्यश्राद्धम् ॥ ६ ॥ अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥ तत्र नवानि द्रव्याणि ॥ ८ ॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥ कानि पुनस्तानि ? यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥ यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥ १. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।
नित्यश्राद्धम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६१ तानि च भुक्तवद्भ्यो दद्यात् ॥ १० ॥ तानि भाण्डानि कांस्यादीनि च भुक्तवद्भ्यो ब्राह्मणेभ्यो दद्यात् । एवं प्रत्यहम् ॥ १० ॥ समुदेतांश्च भोजयेत् ॥ ११ ॥ समुदेतवचनं गुणाधिक्यार्थम् ॥ ११ ॥ न चाऽतद्गुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥ भाण्डेषु यत् भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाय भुक्तवतां ये गुणास्तद्रहिताय न दद्यात् तद्गुणायैव दद्यादिति(१) ॥ १२ ॥ एवं संवत्सरम् ॥ १३ ॥ एवमेतन्नित्यश्राद्धं संवत्सरं कर्तव्यमहरहः ॥ १३ ॥ तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥ तेषां संवत्सरस्याऽह्नां उत्तममहस्समाप्तिदिनम् । लोहेन लोहितवर्णेन अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नर्थे लोहशब्दः-(२) ‘लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वे’ति । च- मकेषु च भवति (३)‘श्यामं च मे लोहं च म’ इति ॥ १४ ॥ मानं च कारयेत्प्रतिच्छन्नम् ॥ १५ ॥ मानं धिष्ण्यं वेदिका । दृश्यते हि मिनोतेरस्मिन्नर्थे प्रयोगः अग्रेणाऽऽग्नीध्रं चतुर उपस्नावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चा- न्निन्नतमिति। स एवायमुपसर्गरहितस्य प्रयोग । तं मानं कारयेत् कर्म- करैः, प्रतिच्छन्नं च तद्वति तिरस्करिण्यादिना। इदमपि ग्रामाद्बहिरेव ॥ तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥ तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः ॥ १६ ॥ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितॄन्नित्युपदिशन्ति ॥ १७ ॥ १. तदलाभे एतानि भुक्तवद्भ्यो ददाति उच्छिष्टानि श्राद्धे भुक्तवद्भ्य एव दद्यात् ॥ इत्यधिक घ. पुस्तके । २. लौहेन इति घ. पु. ३ तै स. ४. ७. ५. ‘‘अग्नाविष्णू सजोषसा’’इत्याद्या एकादशानुवाकाः चमका इ- त्युच्यन्ते ‘चमे’ शब्दघटित्वात् ।
२६२ आपस्तम्बधर्मसूत्रे [ (प.८.) क. १९. तस्यैवं कृतस्य कर्मणो महिम्ना उभयान् पश्यति, कांश्च कांश्च ब्राह्मणान्भु- ञ्जानान् तस्मिन्नेव च माने पितॄन् यथा। ब्राह्मणान् भुञ्जानान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितॄनपि प्रत्यक्षेण पश्यतीत्युपदि- शन्ति धर्मज्ञाः ॥ १७ ॥ कृताकृतमत ऊर्ध्वम् ॥ १८ ॥ अत ऊर्ध्वं मासिश्राद्धं क्रियताम्, मा वा कारि । अकरणेऽपि न प्रत्यवाय इति ॥ १८ ॥ श्राद्धेन तृप्तिं निवेदयन्ते पितरः ॥ १९ ॥ हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते ज्ञापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥ अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिरुच्छिष्टं दद्युरित्यन्त एकः। तिष्येण पुष्टिकामः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्नेऽष्टादशी कण्डिका ॥ १८ ॥ गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र- क्षाल्य मुखं कर्णौ प्राश्य च यद्वातो नाऽतिवाति तदा- सनोऽजिनं बस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा- मुखो भुञ्जीत ॥ १ ॥ पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च लुपि'त्यधिकरणे तृतीया । तिष्ये नक्षत्रे गौराणां सर्षपाणां चूर्णानि कर्म- करैः कारयेत् । कारयित्वा तच्चूर्णैः पाणी पादौ प्रक्षाल्य मुखं कर्णौ च प्रक्षा- ल्य चूर्णशेषं प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत् प्रतितिष्यं विशेषकृत्यम् । परं तु प्रत्यहं कर्तव्यम् । प्राश्य च यदासनं वा- तो नातिवाति अधो नातीत्य वाति तदासनस्तादृशासनः भुञ्जीतेति व- क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः । वाग्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥ अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपादिशन्ति ॥२॥ १. पा. सू. २. ३.४५.
पुंस्त्वर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६३ यदेवंमुखस्य दक्षिणामुखस्य भोजनं तत् भोक्तुर्या माता तस्या अनायुष्यमनायुष्यकरमिति धर्मज्ञा उपदिशन्ति । तस्मान्मातृमता नैवं कृतं कार्यमिति ॥ २ ॥ औदुम्बरश्चमसः सुवर्णनाभः प्रशस्तः ॥ ३ ॥ चमु भक्षणे । यत्र चम्यते स चमसो भोजनपात्रम् । औदुम्बरस्ता- म्रमयः सुवर्णेन मध्येऽलंकृतस्स प्रशस्तः प्रशस्तो भोजने ॥ ॥ ३ ॥ नचाऽन्येनाऽपि भोक्तव्यम् ॥ ४ ॥ नचान्येनापि कर्तुः पित्रापि तत्र पात्रे भोक्तव्यम् । अपिर्धात्वार्था नुवादी । भोक्तव्य इति पुंलिङ्गपाठेऽप्येष एवार्थः ॥ ४ ॥ यावद्ग्रासं सन्नयन्नस्कन्दयन्नाऽपजिहीताऽपजिहीत वा कृत्स्नं ग्रासं ग्रसति सहाङ्गुष्ठम् ॥ ५ ॥ यावदेव सकृत् ग्रसितुं शक्यं तावदेव सन्नयन् पिण्डीकुर्वन् । अस्कन्द- यन् भूमावन्नलेपानपातयन् कृत्स्न ग्रासं ग्रसीतेत्यन्वयः । सहाङ्गुष्ठम् आ स्येऽपि ग्रासप्रवेशे यथाऽङ्गुष्ठोऽप्यनुप्रविशति तथा सर्वानैव ग्रासानु क्तेन प्रकारेण ग्रसति ग्रसतो मध्ये क्रियान्तरविधिः-नाऽपजिहीत भोजन पात्रं सव्येन पाणिना न विमुञ्चेत् । अपजिहीत वा विमुञ्चेद्वा । किमर्थमिदम् यावता न प्रकारान्तरं सम्भवति, सत्यं, 'प्रक्रमात्तु नियम्यत' इति न्यायेन य एव प्रकारः प्रथमे भोजने स एवाऽऽन्तादनुष्ठातव्य इत्येवमर्थ- मिदम् ॥ ५ ॥ न च मुखशब्दं कुर्यात् ॥ ६ ॥ भोजनदशायामिदम् । एवमुत्तरम् ॥ ६ ॥ पाणिं च नाऽवधूनुयात् ॥ ७ ॥ पाणिरत्र दक्षिणः ॥ ७ ॥ आचम्य चोध्र्वौ पाणी धारयेदाप्रोदकीभावात् ॥ ८ ॥ भुक्त्वाऽऽचम्य पाणी ऊर्ध्वौ धारयेत् यावत् प्रगतोदकौ शुष्कोदकौ भवतः ॥ ८ ॥ ततोऽग्निमुपस्पृशेत् ॥ ९ ॥ भुक्त्वा नियमेनाग्निरुपस्पृष्टव्यः ॥ ६ ॥
२६४ आपस्तम्बधर्मसूत्रे [(प.८.)क.१९] दिवाच न भुञ्जीताऽन्यन्मूलफलेभ्यः ॥ १० ॥ मूलानि कन्दाः । फलान्याम्रादीनि । तेभ्योऽन्यद्दिवा न भुञ्जीत । तद्भक्ष- णे न दोषः ॥ १० ॥ स्थालीपाकानुद्देश्यानि च वर्जयेत् ॥ ११ ॥ (१)तेन सर्पिष्मता ब्राह्मणं भोजये' दित्यादौ ब्राह्मणो भूत्वा न भु- ञ्जीत अनुद्देश्यानि च पितृभ्यो देवताभ्यश्च सङ्कल्पितानि च न भुञ्जीत । ११ । सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ॥ १२ ॥ उत्तराच्छादनमुपरिवासः । तेन यज्ञोपवीतेन यज्ञोपवीतं कृत्वा भुञ्जीत । नाऽस्य भोजने "अपि वा सूत्रमेवोपवीतार्थ" इत्ययं कल्पो भवतीत्येके । समुच्चय इत्यन्ये ॥ १२ ॥ नैयमिकं तु श्राद्धं स्नेहवदेव दद्यात् ॥ १३ ॥ यन्नियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहद्रव्ययुक्तमेव दद्यात् । न शुष्कम् ॥ १३ ॥ तत्र विशेषः- सर्पिर्मांसमिति प्रथमः कल्पः ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ अभावे तैलं शाकमिति ॥ १५ ॥ सर्पिषोऽभावे तैल मांसस्याऽभावे शाकम् । इतिशब्दाद्यच्चान्यदेवं युक्तम् ॥ १५ ॥ मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान् भोजयेत् ॥१६॥ मघासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिर्मिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी काण्डका ॥ १९ ॥ १. आप गृ. ७. १५.
पुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ मासि श्राद्धे तिलानां द्रोणंद्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत् ॥ १ ॥ येनोपायैनोपयोजयितुं शक्नुयात् अभ्यङ्गे, उद्वर्तने, भक्ष्ये, भोज्ये चेति तेनोपायेन मासिश्राद्धे तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म- णस्य तिलानां द्रोणं द्रोणमुपयोजयितुमशक्यत्वात् समुदितानुपयोजये त् । द्रौणंद्रोणमिति वीप्सावचनं तु प्रतिमासिश्राद्धमुपयोजनार्थमिति केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित- व्या इति ॥ १ ॥ समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥ व्याख्यातमिदम् । दद्युरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् । वचनव्यत्ययो वा ॥ २ ॥ अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाप्तेः- उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य ति- ष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराज- मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ॥ ३ ॥ पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षस्य पूर्वपक्षस्य सम्बन्धिन। तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा (१)महाराजं वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान होम । स्विष्टकृदादिजयादयः । परिषेचनान्ते तेन सर्पिष्मता स्थाली- पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेदं वचनम् । भोजयित्वा सिद्धिं वाचयीत पुष्टिरस्त्विति ॥ ३ ॥ एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥ एवमिदं स्थालीपाकश्नपणादिसिद्धिवाचनान्तमहरहः कर्तव्यमापरस्मा- त्तिष्यात् यावदपरस्तिष्य आगच्छति ॥ ४ ॥ द्वौ द्वितीये ॥ ५ ॥ १ कुबेराय वैश्रवाणाय । महाराजाय नमः। ( तै आर. १. ३१. ) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥ आप० ध० ३४
२६६ आपस्तम्बधर्मसूत्रे [(प.८)क.२०. द्वितीये तिष्ये प्राप्ते द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥ त्रींस्तृतीये ॥ ६ ॥ तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥ एवं संवत्सरमभ्युच्चयेन ॥ ७ ॥ एवमेतत्कर्म यावत्संवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन चाऽभ्युच्चयेन भवति। चतुर्थप्रभृति चत्वारः, पञ्चमप्रभृति पञ्चेत्यादि॥७॥ एवं कृते फलमाह- महान्तं पोषं पुष्यति ॥ ८ ॥ महत्या पुष्ट्या युक्तो भवति ॥ ८ ॥ आदित एवोपवासः ॥ ९ ॥ उपवासस्त्वादित एव पुष्ये भवति । न प्रतिपुष्यम् ॥ ९ ॥ आत्ततेजसां भोजनं वर्जयेत् ॥ १० ॥ आत्ततेजांसि तक्रवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥ भस्मतुषाधिष्ठानम् ॥ ११ ॥ वर्जयेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽक्रामेत् ॥ ११ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥ एकेन पादेन पादान्तरस्य प्रक्षालनं अधिष्ठानं च वर्जयेत् न कुर्यात् ॥१२॥ प्रेङ्खोलनं च पादयोः ॥ १३ ॥ प्रेङ्खोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥ जानुनि चाऽत्याधानं जङ्घायाः ॥ १४ ॥ एकस्मिन् जानुनि इतरस्या जङ्घायाः अत्याधानमवस्थापनं च वर्जयेत्॥१४ नखैश्च नखवादनः ॥ १५ ॥ स्पष्टम् ॥ १५ ॥ स्फोटनानि चाऽकारणात् ॥ १६ ॥ पर्वसन्धीनां स्फोटनानि वर्जयेत् अकारणात्, कारणं श्रमवातादि । वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥
पृष्ट्यर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६७ यच्चान्यत्परिचक्षते ॥ १७ ॥ यच्चान्यदेवं उक्तव्यतिरिक्तं तृणच्छेदनादि शिष्टाः परिचक्षते गर्हन्ते तदपि वर्जयेत् ॥ १७ ॥ योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च ॥ १८ ॥ एकश्चशब्दोऽनर्थकः । केचिन्नैव पठन्ति । धर्माविरुद्धा ये द्रव्यप- रिग्रहास्तेषु च योक्ता उत्पादयिता स्यान्निरीहस्स्यात् ॥ १८ ॥ प्रतिपादयिता च तीर्थे ॥ १९ ॥ तीर्थं गुणवत् पात्रं, यज्ञो वा । तत्र द्रव्यस्याऽर्जितस्य प्रतिपाद- यिता स्यात् ॥ १९ ॥ यन्ता चाऽतीर्थे यतो न भयं स्यात् ॥ २० ॥ यन्ता नियन्ता अप्रदाता अतीर्थे अप्रदाता च स्यात् । यतः पुरुषादप्र- दानेऽपि न भयं स्यात् । भयसम्भवे तु पिशुनादिभ्यो देयम् ॥ २० ॥ सङ्ग्रहीता च मनुष्यान् ॥ २१ ॥ अर्थप्रदानप्रियवचनानुसरणादिभिर्मनुष्याणां सङ्ग्रहणशीलस्स्यात्२१ भोक्ता च धर्माविप्रतिषिद्धान् भोगान् ॥ २२ ॥ धर्माविरुद्धा ये भोगाः स्रक्चन्दनस्वभार्यासेवनादयः, तेषां च भोगशीलस्स्यात् ॥ २२ ॥ एवमुभौ लोकावभिजयति ॥ २३ ॥ एवं महत्या पुष्ट्या युक्त उक्तप्रकारमनुतिष्ठन्नुभौ लोकावभिजयति भोगेनेमं लोकं, तीर्थे प्रतिपादनेन चाऽमुं लोकमिति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने विंशी काण्डिका ॥ २० ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८ ॥