आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 298, कुल 399 में से
संदर्भ में पढ़ें.राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ ग्रामेभ्यस्तु सर्वासु दिक्षु क्रोशो रक्ष्यः। ग्रामेभ्यः इति (१) यतश्चाऽध्व- कालपरिमाणं तत्र पञ्चमी वक्तव्ये'ति पञ्चमी ॥ ७ ॥ तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामि भ्यस्तत्प्रतिदद्यु राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठ्यं वकारं पठन्ति ॥ ८ ॥ धर्म्यं शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२)'विंशतिभागश्शुल्कः पण्ये' इति। यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा । एष धर्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु विशेषस्तैनेवोक्तः-(३)'मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षष्ठि- क्य'मिति ॥ ९ ॥ अकरः श्रोत्रियः ॥ १० ॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्याँः ॥ १० ॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात् प्रतिलोमादिखियो दाप्याः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥ व्यञ्जनानि श्मश्रूवादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्था वसन्ति ॥ १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा अकराः ॥ १३ ॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः । धर्मपरा, अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र- सिद्धये तपस्तप्यन्ते ते अकरा मा भुवंन्निति ॥ १४ ॥ १. पा. सू. (वा) १. ४. ३१. २. गौ. ध १०. २६. ३. गौ. ध. १०. २७.