भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 299, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 299

२८८ आपस्तम्बधर्मसूत्रे [(प. १०,) क. २६. शूद्रश्च पादावनेक्ता ॥ १५ ॥ यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥ १५ ॥ अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥ एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥ ये व्यर्था द्रव्यपरिग्रहैः ॥ १७ ॥ ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः । तथा च वसिष्ठः— (१)“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्र- शान्ता” इति ॥ १७ ॥ अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन् कुमारीं वा वाचा बाध्यः ॥ १८ ॥ यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अ- बुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते, माऽत्र प्रविशेति ॥ १८ ॥ बुद्धिपूर्वे तु दुष्टभावो दण्ड्यः ॥ १९ ॥ यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानु- रूपमपराधानुरूपं च । दुष्टभावग्रहणामाचार्यादिप्रोषितस्य प्रवेशे दण्डो मा भूदिति ॥ १९ ॥ सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥ सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज- नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥ २०॥ कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥ कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न शिश्नच्छेदः ॥ २१ ॥ अथ भृत्यै राज्ञा ॥ २२ ॥ अथ सन्निपातात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्यै ग्रासाच्छा- दनप्रदानेन भर्तव्ये ॥ २२ ॥


१. व. ध. १९. २३.