आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 300, कुल 399 में से
संदर्भ में पढ़ेंनियोगविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८९ रक्षेच्चाऽत ऊर्ध्वं मैथुनात् ॥ २३ ॥ अतः प्रथमात् सन्निपातात् ऊर्ध्वं मैथुनाच्च रक्षेद्यथा पुनः मैथुनं नाचरेतस्तथा कार्ये ॥ २३ ॥ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥ यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः तदा निर्वेषा- भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदारं भर्त्रे श्वशुराय वा, कुमारीं पित्रे भ्रात्रे वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने षड्विंशी कण्डिका ॥ २६ ॥ चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥ चरिते तु निर्वेषे यथापुरं यथापूर्वं धर्मात् , तृतीयार्थे पञ्चमी । धर्मेण सम्बन्धो भवति । हिशब्दो हेतौ । यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो यज्ञविवाहादौ न कश्चिद्दोष इति ॥ १॥ परदारप्रसङ्गादुच्यते - सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २ ॥ योऽनपत्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या- (१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकाङ्क्षिणः, तद्वि- षयमेतत् । कुलान्तरप्रविष्टा सगोत्रस्थानीया । सा हि पूर्वं पितृगोत्रा सती(२) भर्तृगोत्रधर्मैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी- या भवति । भर्ता तु साक्षात्सगोत्रः । तां सगोत्रस्थानीयां न परेभ्यो- ऽसगोत्रेभ्यस्समाचक्षीत—इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, तत्रापि देवराय, तदभाव(३) सर्पिण्डेभ्यः ॥ कः पुनस्सगोत्रस्य विशेषः ? तमाह-- कुलाय हि स्त्री प्रदीयते इत्युपदिशन्ति ॥ ३ ॥ हि यस्मात् स्त्री कन्या प्रदीयमाना कुलायैव प्रदीयते इत्युपदिशन्त धर्म १. परस्मै. इति. क. पु. २. भर्तृगोत्रधर्मैराधिक्रियते । ३. सपिण्डाय. इति. च पु. आप० ध० ३७