आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 297, कुल 399 में से
संदर्भ में पढ़ें२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥ ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा- त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया- पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥ एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य- मानास्तनुत्यजः ॥ ३ ॥ प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान प्रजागुप्तये निदध्यात् ॥ ४ ॥ आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥ तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥ तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव स्युः ॥ ५ ॥ सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥ सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि- त्यपपाठः ॥ ६ ॥ क्रोशो ग्रामेभ्यः ॥ ७ ॥