भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 295, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 295

२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५. सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥ वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न- योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥ अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥ तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात- र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥ आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ- निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्‍वासयितुं न शक्नोति श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१) तक्रादि ॥ ९ ॥ गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा- दनादिषु तान्नाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव- सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः । एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् । बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति, तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः । तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 295, कुल 399 में से · BharatKosha