भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५. सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥ वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न- योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥ अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥ तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात- र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥ आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ- निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्‍वासयितुं न शक्नोति श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१) तक्रादि ॥ ९ ॥ गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा- दनादिषु तान्नाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव- सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः । एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् । बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति, तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः । तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.

राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८५ सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षान्नियपेद्युग्मान् वैभीतकान् यथार्थान् ॥ १२ ॥ पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम्। तत् पूर्वं काष्ठादिना उद्धन्ति उद्धृत्याऽवोक्षति। अवो- क्ष्य तत्राऽक्षान्युग्मसंख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान् यथार्थान् यावद्भिर्द्यूतं निर्वर्तते, तावतो निवपति। कः? यस्तत्र राज्ञा नियुक्तः सभिको नाम ॥ १२ ॥ आर्याः शुचयस्सत्यशीला दीवितारस्स्युः ॥ १३ ॥ आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीव्ये- युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पणं सभिकाय दत्वा गच्छेयुः । स च राज्ञे तमायपहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्यः- (२)'ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्त कितवादितराद्दशकं शतम् ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेज्जैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति ॥ १३ ॥ आयुधग्रहणं वृत्तगीतवादित्राणीति राजाधीने- भ्योऽन्यत्र न विद्येरन् ॥ १४ ॥ आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विद्येरन् न भवेयुः । उत्सवादिष्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥ क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥ यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति स एव राजा क्षेम- कृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥ १५ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ १. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९; २००

२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥ ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा- त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया- पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥ एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य- मानास्तनुत्यजः ॥ ३ ॥ प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान प्रजागुप्तये निदध्यात् ॥ ४ ॥ आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥ तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥ तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव स्युः ॥ ५ ॥ सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥ सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि- त्यपपाठः ॥ ६ ॥ क्रोशो ग्रामेभ्यः ॥ ७ ॥

.राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ ग्रामेभ्यस्तु सर्वासु दिक्षु क्रोशो रक्ष्यः। ग्रामेभ्यः इति (१) यतश्चाऽध्व- कालपरिमाणं तत्र पञ्चमी वक्तव्ये'ति पञ्चमी ॥ ७ ॥ तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामि भ्यस्तत्प्रतिदद्यु राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठ्यं वकारं पठन्ति ॥ ८ ॥ धर्म्यं शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२)'विंशतिभागश्शुल्कः पण्ये' इति। यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा । एष धर्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु विशेषस्तैनेवोक्तः-(३)'मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षष्ठि- क्य'मिति ॥ ९ ॥ अकरः श्रोत्रियः ॥ १० ॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्याँः ॥ १० ॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात् प्रतिलोमादिखियो दाप्याः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥ व्यञ्जनानि श्मश्रूवादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्था वसन्ति ॥ १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा अकराः ॥ १३ ॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः । धर्मपरा, अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र- सिद्धये तपस्तप्यन्ते ते अकरा मा भुवंन्निति ॥ १४ ॥ १. पा. सू. (वा) १. ४. ३१. २. गौ. ध १०. २६. ३. गौ. ध. १०. २७.

२८८ आपस्तम्बधर्मसूत्रे [(प. १०,) क. २६. शूद्रश्च पादावनेक्ता ॥ १५ ॥ यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥ १५ ॥ अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥ एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥ ये व्यर्था द्रव्यपरिग्रहैः ॥ १७ ॥ ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः । तथा च वसिष्ठः— (१)“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्र- शान्ता” इति ॥ १७ ॥ अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन् कुमारीं वा वाचा बाध्यः ॥ १८ ॥ यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अ- बुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते, माऽत्र प्रविशेति ॥ १८ ॥ बुद्धिपूर्वे तु दुष्टभावो दण्ड्यः ॥ १९ ॥ यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानु- रूपमपराधानुरूपं च । दुष्टभावग्रहणामाचार्यादिप्रोषितस्य प्रवेशे दण्डो मा भूदिति ॥ १९ ॥ सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥ सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज- नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥ २०॥ कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥ कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न शिश्नच्छेदः ॥ २१ ॥ अथ भृत्यै राज्ञा ॥ २२ ॥ अथ सन्निपातात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्यै ग्रासाच्छा- दनप्रदानेन भर्तव्ये ॥ २२ ॥


१. व. ध. १९. २३.

नियोगविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८९ रक्षेच्चाऽत ऊर्ध्वं मैथुनात् ॥ २३ ॥ अतः प्रथमात् सन्निपातात् ऊर्ध्वं मैथुनाच्च रक्षेद्यथा पुनः मैथुनं नाचरेतस्तथा कार्ये ॥ २३ ॥ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥ यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः तदा निर्वेषा- भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदारं भर्त्रे श्वशुराय वा, कुमारीं पित्रे भ्रात्रे वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने षड्विंशी कण्डिका ॥ २६ ॥ चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥ चरिते तु निर्वेषे यथापुरं यथापूर्वं धर्मात् , तृतीयार्थे पञ्चमी । धर्मेण सम्बन्धो भवति । हिशब्दो हेतौ । यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो यज्ञविवाहादौ न कश्चिद्दोष इति ॥ १॥ परदारप्रसङ्गादुच्यते - सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २ ॥ योऽनपत्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या- (१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकाङ्क्षिणः, तद्वि- षयमेतत् । कुलान्तरप्रविष्टा सगोत्रस्थानीया । सा हि पूर्वं पितृगोत्रा सती(२) भर्तृगोत्रधर्मैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी- या भवति । भर्ता तु साक्षात्सगोत्रः । तां सगोत्रस्थानीयां न परेभ्यो- ऽसगोत्रेभ्यस्समाचक्षीत—इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, तत्रापि देवराय, तदभाव(३) सर्पिण्डेभ्यः ॥ कः पुनस्सगोत्रस्य विशेषः ? तमाह-- कुलाय हि स्त्री प्रदीयते इत्युपदिशन्ति ॥ ३ ॥ हि यस्मात् स्त्री कन्या प्रदीयमाना कुलायैव प्रदीयते इत्युपदिशन्त धर्म १. परस्मै. इति. क. पु. २. भर्तृगोत्रधर्मैराधिक्रियते । ३. सपिण्डाय. इति. च पु. आप० ध० ३७

२९० आपस्तम्बधर्मसूत्रे [ (प.१०)क.२७. ज्ञाः । तस्मात् सगोत्रायैव समाचक्षीतेति(१) ॥ ३ ॥ तमिमं नियोगं दूषयति-- तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४ ॥ यद्यप्येवं पूर्वे कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपन्नं विप्रतिषिद्धम् । कुतः ? इन्द्रियदौर्बल्यात् । दुर्बलेन्द्रिया ह्यद्यत्वे मनुष्याः । ततश्च शास्त्रव्या- जेनापि भर्तृव्यतिक्रमेऽतिप्रसङ्गस्स्यादिति ॥ ४ ॥ सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह-- अविशिष्टं हि परत्वं पाणेः ॥ ५ ॥ येन पाणिना पूर्वमग्निसाक्षिकं पाणिर्गृहीतः कन्यायाः, तस्मात् पा- णेरन्यो भवति सगोत्रस्याऽपि पाणिः । यस्मादेवं पाणेः परत्वमविशिष्टं स- मानम् ? तस्मादविशेष इति । अविशिष्टमित्यपपाठः ॥ ५ ॥ पाणिरन्यो भवतु, को दोषः ? तद्व्यतिक्रमे खलु पुनरुभयोर्नरर्कः ॥ ६ ॥ तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र- सिद्धियोतकौ निपातौ । अतः पत्याऽपि न स पाणिस्त्याज्यः यः पूर्वं गृहीतः । भार्ययाऽपि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा- णिर्गृहीतः ॥ ६ ॥ नियमारम्भणो हि वर्षीयानभ्युदय एवमा- रम्भणादपत्यात् ॥ ७ ॥ आरभ्यतऽनेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ- रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्स एवं वर्षीयान् । वृद्धतरः । कस्मात् वर्षीयान् ? एवमुक्तप्रकारेण नियोगलक्षणेन यदपत्य- मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिति । अपत्यादिति पाठः । आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥ नाश्य आर्यश्शूद्रायाम् ॥ ८ ॥ आर्यस्त्रैवर्णिकः, शूद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रात्नाश्यः निर्वास्यः ॥ ८ ॥ १. “कुलाय कन्या क्वचिद्देशेषु दीयते । गोत्रजे न केनचिदप्यनुभूयते । उक्तं च बृहस्पतिना—अभर्तृका भ्रातृभार्या ग्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व- न्येषु दृश्यते इति” इत्यधिकः पाठ. घ. पु.

परस्त्रीगमनप्रायश्चित्तम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९१ वध्यश्शूद्र आर्यायाम् ॥ ९ ॥ शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च योऽन्तःपुरादिष्वधि- कृतो रक्षकस्सन् स्वयं गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतमः(१)-'आर्यस्यभिग- मने लिङ्गोद्धारः स्वहरणं च । गोप्ता चेद्वधोऽधिक' इति । याज्ञवल्क्येन प्रातिलोम्येन गमनमात्रे वध उक्तः- "(२)सजातावुत्तमो दण्डः आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥' इति । सोऽनुबन्धाभ्यासाद्यपेक्षो द्रष्टव्यः । तथा 'नास्य भार्य्यशूद्रायामि' त्याचार्यवचनमप्यभ्यासापेक्षम्, ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विष- यं वा द्रष्टव्यम् ॥ ९ ॥ दारं चाऽस्य कर्शयेत् ॥ १० ॥ अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत् व्रतनियमोपवासैः । या प्रजाता न भवति तद्विषयमेतत् । (४)'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः॥' इति स्मरणात् ॥ १० ॥ सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्ति ॥ ११ ॥ अन्यः पूर्वः पतिः यस्यास्सा अन्यपूर्वा परभार्या, तस्यां सवर्णायां सकृ- द्गमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्योऽ शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा- र्यायामृतुकाले कामतः प्रथम(५)दूषकस्य । तत्र गौतमः(६)-'द्वे पर- दारे । त्रीणि श्रोत्रियस्ये'ति ॥ ११ ॥ एवमभ्यासे पादः पादः ॥ १२ ॥ एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२ ॥ १. गौ. ध. १२. २. ३. २. या. स्मृ. २. २८६. ३. पुंसो नार्याः कर्णादिकर्तनम् इति विज्ञानेश्वरारूढः पाठः । ४. श्लोकोऽयं मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः । ५. दूषकस्य ब्राह्मणस्य. इति घ. च. पु ६. गौ. ध. २२. २९, ३०.

२९२ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७. चतुर्थे सर्वम् ॥ १३ ॥ अतः -चतुर्थे सन्निपाने सर्वमेव पतति । तनश्च पूर्णद्वादशवार्षिकं कर्तव्य- म् । तृतीये नव वर्षाणि । द्वितीये षड्वर्षाणि । एतच्च प्रतियोगं स्त्रीभेदेन प्रथमदूषकस्य । एकस्यामेव त्वभ्यासे कल्प्यम् । तत्र- (१)'यत् पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्, इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो- धेन कल्प्यम् ॥ १३ ॥ जिह्वाच्छेदनं शूद्रस्याऽऽर्ये धार्मिकमाक्रोशतः ॥ १४ ॥ शूद्रो द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । मनुस्तु सामान्येनाह- (३)'येनाङ्गेनावरो वर्णो ब्राह्मणस्याऽपराध्नुयात् । तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥ गौतमस्तु--(४)'शूद्रो द्विजातीनातिसन्धायाऽभिहत्य च वाग्दण्डपारु- ष्याभ्यामङ्गं मोच्यो येनोपहन्द्या'दिति ॥ १४॥ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् ॥ १५ ॥ यस्तु शूद्रो वागादिष्वार्यैस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन ताडनं कर्तव्यम् । स दण्डेन ताडयितव्यः । अयमस्य दण्डः ॥ १५ ॥ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः ॥१६॥ भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु निमित्तेषु शूद्रस्सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयितव्यः ॥ १६ ॥ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ॥ १७ ॥ ब्राह्मणस्य त्वेतेषु निमित्तेषु चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति । न तूत्पाटयेतव्ये (५)'न शारीरो ब्राह्मणदण्डः । अक्षतो ब्राह्मणो व्रजे'दिति स्मरणात् । 'चक्षुनिरोध' इति रेफलोपश्छान्दसः ॥ १७ ॥ नियमतिक्रामिणमन्यं वा रहसि बन्धयेत् ॥ १८ ॥ १. म. स्मृ. ११. १७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ. ८. २७९. ४. गौ. १२. १. ५. गौ. ध. १२. ४६.

उज्ज्वलोपेते द्वितीयः प्रश्नः । २९३ यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं नियमातिक्रमणमन्य वा प्रति- षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुन्ध्यात् ॥ १८ ॥ आसमापत्तेः ॥ १९ ॥ यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिष्य इति ब्रूयात् ॥ १९ ॥ असमापत्तौ नाशः ॥ २० ॥ यद्यसौ दीर्घकालं निरुद्धोऽपि न समापद्येत, ततो नाशः निर्वास्यः२० आचार्य ऋत्विक्स्नातका राजेति त्राणं स्युरन्यत्र वध्यात् ॥ २१ ॥ यदि दण्डे प्रवृत्तं राजानमाचार्यो ब्रूयात्-अहमेनमतः परं वारयि- ष्यामि मुच्यतामयमिति । अतोऽङ्गदण्डं प्राप्तेऽर्थदण्डम्, अर्थदण्डे प्राप्ते ताडनेम् , ताडने प्राप्ते धिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृ- त्विजि । ऋत्विगाचार्यौ राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्याव्रता- भ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञस्सम्मान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यत्र वधात् यस्य वधानुगुणोऽपराधः न तस्याऽऽचार्यादयोऽपि त्राणम् ; हन्तव्य एव स इति ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥ १० ॥

अथैकादशः पटलः ॥ क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्स- मृद्धस्स भावि तदपहार्यः ॥ १ ॥ वैश्यो वैश्यवृत्तिर्वा परस्य क्षेत्रं कृष्यर्थं परिगृह्य यदि उत्थानं कृषि विषयं यत्नं न कुर्यात्, तदभावाच्च फलं न स्यात्, तत एतस्मिन्निमित्ते स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । राज्ञा क्षेत्रस्वामिने दाप्यः ॥ १ ॥ अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २ ॥ कीनाशः कर्षकः । तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्य कर्मन्यासे स चेत् कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडन कर्तव्यं स दण्डेन ताडयितव्यः । अर्थाभावाच्चाऽर्थदण्डः । अपर आह—अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृह्याऽवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात्, तदा स परिग्राहको दण्डेन ताडयितव्य इति । यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य वशी स्वतन्त्रः क्षेत्रवान्नास्ति, स यदि पूर्वकृष्टस्य क्षेत्रस्य कृषिकर्म न्यसेत् न कुर्यात्, तस्य दण्डताडनं दण्ड इति राजपुरुष- स्योपदेशः ॥ २ ॥ तथा पशुपस्य ॥ ३ ॥ पशुपो गोपालः तस्याऽपि कर्मन्यासे पालनस्याऽकरणे दण्डेन ताडनं दण्डः ॥ ३ ॥ अवरोधनं चाऽस्य पशूनाम् ॥ ४ ॥ ये चाऽस्य पशवो रक्षणाय समर्पितास्तेषां चाऽवरोधनमपहरणं कर्त- व्यमन्यस्य गोपस्य समर्पणीया इति ॥ ४ ॥ हित्वा व्रजमादिनः कर्शयेत्पशून् ॥ ५ ॥ ये पशवो व्रजे गोष्ठे निरुद्धास्तं व्रजं हित्वा आदिनस्सस्यादेर्भक्षयि- तारो भवन्ति; तान् कर्शयेत् बन्धनादिना कृशान् कुर्यात् । कः ? यत् भ- क्षितं तद्वान्, राजपुरुषो वा ॥ ५ ॥ नाऽतिपातयेत् ॥ ६ ॥

दण्डानर्हाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९५ नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ॥ ६ ॥ अवरुध्य(१) पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ॥ ७ ॥ यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभ्यस्थाने विसृज्यो- पेक्षया मारयेत् नाशयेद्वा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥ प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८ ॥ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा ग्राममानीय स्वामिभ्यः अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा नियुक्तः ॥ ८ ॥ पुनः प्रमादे सकृदवरुध्य ॥ ९ ॥ पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवसृजेत् ॥ ९ ॥ तत ऊर्ध्वं न सूक्षेत् ॥ १० ॥ ततो द्वितीयात् प्रयोगादूर्ध्वं 'ग्राममानीयै'त्यादि यदुक्तं तन्न सूक्षेत् ना- द्रियेत तस्मिन् विषये उपेक्षेत ॥ १० ॥ परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥ एधाश्चोदकं च एधोदकम् । ग्रासो गवाद्यर्थो यवसादिः । सर्वत्र वि- षयसप्तमी । यः परपरिग्रहोऽयमित्यविद्वानजानन् एधादिकमादत्ते गृह्णा- ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः निवार्यः ॥ ११ ॥ विदुषो वाससः(२) परिमोषणम् ॥ १२ ॥ यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥ अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः॥१३॥ तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशयदशायामेधो- १. 'पशून्मारयेन्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम्, इति, क, पु.

२९६ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. २९. दकादेरादाने कामकृतेऽप्यदण्ड्यः । तथा भोजनमप्याददानः प्राणसंशये न दण्ड्य इति ॥ १३ ॥ प्राप्तनिमित्ते दण्डकर्मणि राजानमेनस्स्पृशति ॥ १४ ॥ प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डकर्मणि दण्डस्याऽक्रि- यायां यदि दययाऽर्थलोभेन वा प्राप्तदण्डं न कुर्यात् तदा तदेनो राजान- मेव स्पृशति ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥ २८ ॥ ननु(१) शास्त्रफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह— प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः ॥ १ ॥ धर्ममधर्मं वा प्रकुर्वाणं यः प्रयुंक्ते-इदमित्थं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकारः-आज्ञापकोऽभ्यर्थायता अनुग्राहक इति । भृत्यादे र्निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेरागण्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधः—उपदेशस्तत्सधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रूमित्थं व्यापादय, धर्मार्जनेऽय तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिञ्जिघांसितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमति मन्तरेणाऽर्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षात्क्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेष्वधर्मेषु च भागिनः फल स्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥ १ ॥ यो भूय आरभते तस्मिन् फलविशेषः ॥ २ ॥ तेषु प्रयोजकादिषु यो भूय आरभते यस्य व्यापारोऽर्थनिवृत्तावधि- कमुपयुज्यते तस्मिन् फलविशेषो भवति ॥ २ ॥ यद्यप्येवम्— कुटुम्बिनौ धनस्येशाते ॥ ३ ॥ कुटुम्बिनौ दम्पती । तौ धनस्य परिग्रहे विनियोगे च ईशाते । यद्य १. पूर्वमीमांसासूत्रस्य ( जै. सू. ३. ७. १८. ) नुवादोऽयम् ।

साक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २९७ प्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न विनियोक्तुं प्रभवति । भर्त्ता तु प्रभवति । तदेतेन वेदितव्यं ‘न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय- मुपदिशन्ती’ति (२. १४. २०) ॥ ३ ॥ तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ॥ ४ ॥ तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामु- ष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥ विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥ ५ ॥ अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु- क्ता निर्णोतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पत्, अध्ययनस- हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा- विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमादः तद्रहिताः ॥ ५ ॥ सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥ ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यच्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि त्यार्थस्थितिमन्विष्य निर्णोतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः ॥६॥ अथ साक्ष्यविधिः— पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभयतस्समा- ख्याप्य सर्वानुमते मुख्यस्सत्यं प्रश्नं ब्रूयात् ॥७॥ पुण्याहो देवनक्षत्रम , प्रातर्मध्याह्नादिषु अग्नावद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति राजाधिष्ठिते सदसि । राज- ग्रहणं प्राड्विवाकादेरुपलक्षणम् । उभयत उभयोर्थिप्रत्यर्थिनोस्समाख्या- प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने च असत्यवचने च साक्षिणो यद्भावि फलं तत्, सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । (१) अनृतेन महाघोरं नरकं प्रतिपत्स्यसे ॥ १. उक्त्वाऽनृतं. इति. च. पु. आप० ध० ३८

इत्यादिना प्रकारेण समाख्याप्य प्राड्विवाकादिभिः पृष्ट इति शे- षः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सभ्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपैतो दोषैश्च वर्जितस्साक्षी प्रश्नं पृष्टमर्थं सत्यं य- थाऽऽत्मना ज्ञातं तथा ब्रूयात् ॥ ७ ॥ अनृते राजा दण्डं प्रणयेत् ॥ ८ ॥ साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा(१) दण्डं प्रणयेत् । अत्र मनुः- '(२)यस्य दृश्येत सप्ताहा(३)दुक्तसाक्ष्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं (४)दाप्यो दण्डं च तत्समम् ॥' इति ॥ ८ ॥ न केवलमसत्यवचने राजदण्डः, किं तर्हि ? नरकश्चाऽत्राधिकः साम्पराये ॥ ९ ॥ साम्परायः परलोकः, तत्र नरकश्च भवति, न तु, (५)'राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ इत्यस्यायं विषय इति ॥ ९ ॥ सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥ सत्य उक्ते स्वर्गो भवति । सर्वाणि च भूतान्येनं प्रशंसन्ति अपि देवाः ॥१०॥ सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ॥ ११ ॥ स्त्रीषु शूद्रेषु च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्या- कर्म परितिष्ठतीति ॥ ११ ॥ आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति ॥ १२ ॥ अथर्वणा प्रोक्तमधीयते ये ते आथर्वणिकाः । वसन्तादिभ्यष्ठक् । तेषां समाम्नायः । “आथर्वणिकस्येकलोपश्च” आथर्वणः । तस्य वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्रेषु चेति ॥ १२ ॥ कृत्स्ना धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥ १. तं दण्डयेत् इति क. पु. २. म. स्मृ. ८. १०८. ३ उक्तवाक्यस्य इति च पु. ४. ऋणं दाप्यो दमं च सः इति. च. पु. मुद्रितपुस्तकेषु च। ५. म, स्मृ ८. ३१८,

उज्ज्वलोपेते द्वितीयः प्रश्नः । २९९ समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्तिः कृच्छ्रान्न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणाश्विति द्वित- कारपाठोऽयमर्षः । आदिति वा निपातस्य प्रश्लेषः । स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥ तत्र लक्षणम् ॥ १४ ॥ सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य- ग्विनीतानां वृद्धानामात्मवतामलोलुपानामदा- म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावभिजयति ॥ १५ ॥ पूर्वेण गतम् ॥ १५ ॥ स्त्रीभ्यस्सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीया- दित्त्येक इत्येके ॥ १६ ॥ उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान् स्त्र्यादीनामपि सकाशात् प्रतीयादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिन्नास्तथैव प्रति- पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि । द्विरुक्तिरध्यायपरिस- माप्त्यर्था ॥ १६ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने एकादशः पटलः ॥ ११ ॥ समाप्तो द्वितीयः प्रश्नः ॥ समाप्तमिदमुज्ज्वलोज्ज्वलितमापस्तम्बधर्मसूत्रम् ॥

अशुद्धसंशोधनम् ॥ अशुद्धम् शुद्धम् पृ० पं० सस्मवे सम्भवे ६ १६ यजुष्यवि यजुष्पवि १० १४ मुलोदसंक्ज्ञो मुलोदकसंज्ञो १६ १५ इहाष्यजिन इहाप्यजिन १७ १३ आप ग० आप० गृ १७ २६ इष्टापूतसुंकृत इष्टापूर्तसुकृत २० २६ च्छुतिविप्रति श्रुतिविप्रति २४ ३ मेधोहरण मेधाहरण २५ १४ दृष्टार्थमहष्टाहष्टार्थं दृष्टार्थमदृष्टार्थं १८ १९ कर्माणयारमने कर्माणयारभते २७ २१ आचाचार्यकुले आचार्यकुले २८ १३ प्रथमप्रश्न प्रथमप्रश्ने ,, २० विरचितया विरचिताया ,, १९ पुरुषात पुरुषात् २९ ११ तपस्व्यज तपस्व्यृजु ३९(३१) १६ आत्मनिन्दिा आत्मनिन्दा ४३ १३ यीतेति (२९) विशष यतीति (२८) विशेष ४४ २३ उपालप्तानि उपलिप्तानि ४५ ८ उपलिसकेश उपलिप्तकेश ,, ,, अनभिभाषित्तो अनभिभाषितो ४७ १२ निर्गमनामर्गा निर्गमनमार्ग ५२ २ शूद्रापतित शूद्रपतित ,, १६ दत्रद्रष्टव्यः अत्र द्रष्टव्यः '५३ २७ द्विताया द्वितीया ५४ १६ चो रादीनां चोरादीनां ५५ १ कार्तिकं कार्तिको ,, १४ ाविधिरयं विधिरयं ५६ ११ चाऽऽमातृकस्थ चाऽमातृकस्य ६० १४ नुलेखणा नुलेपणा ६२ १० ॥ २९ ॥ ॥ १९ ॥ ६३ १२ नीहीरे नीहारे ६३ २१ सर्वासा सर्वासां ६४ १० पुच्छवन्नन्ताम् पुच्छवन्नक्षत्रम् ,, २४

अशुद्धसंशोधनम् । २ अशुद्धम् शुद्धम् पृ० पं० कर्मभिर्वृद्धानां कर्मभिर्वृद्धानां ७३ १६ वसठ्या वक्तव्या ७६ १४ पुस्तकाति पुनस्तानी ७७ ,, त्तिवर्ष पूर्व्वः त्तिवर्षपूर्व्वः ७९ २६ सर्व्वानद्या सर्व्वानद्यो ८४ १ इद्यम्य उद्यम्य ,, २२ नमवत्येव नभवत्येव ,, २७ सुतिकादेक्या सूतिकोदक्या ८६ २० मन्थेधु अन्येषु ८७ ,, लेपानुच्छिष्टानप्युच्छि लेपानुच्छिष्टानप्युच्छि ८८ २४ स्पर्शनमात्र स्पर्शनमात्रं ,, २६ मुषिकलांगं बा मूषिकलांगं वा ९४ ५ वचनाद्धित्वा वचनाद्विवा ,, २३ कुत्सयिवा कुत्सयित्वा ९६ २४ पाकेनोम्ली पाकेनाम्ली ९७ ५ सलाबृक्या सलावृक्या ,, २० तत,न्तैव तत्तत्रैव ,, ३० वृन्दचाराः वृन्दचराः १०० ६ लक्ष्मणबजं लक्ष्मणवर्जम् ,, ७ धरादिष्टव्यञ्जनया धरादिष्टौव्यञ्जनया १०३ २४ भोक्तव्यं भौक्तव्यं १०४ ९ दक्षणियेष्टिः दीक्षणियेष्टिः १०५ १७ ताएते त एते १०७ २२ अभाज्यान्नोः अभोज्यान्नाः ,, २६ क्ष्वधर्मेण स्वधर्मेण च १०८ ९ वंशमन्वन्तराणि बंशो मन्वन्तराणि ११० २ स्तदलाभे तदलाभे ११४ १९ ब्रह्म ब्रह्म ११७ ,, कार्यमीवद्या कार्यमविद्या १२२ ८ अत्राबध्यस्यन्ते अत्रावध्यस्यन्ते १२४ २६ मपस्य मपास्य १२५ २९ सर्व एव सर्व एव १२६ २७ स्वकयि स्वकीय १२७ ४ येऽनुऽतिष्ठन्तीति येऽनुतिष्ठन्तीति १२८ १०

३ अशुद्धसंशोधनम् । अशुद्धम् शुद्धम् पृ० पं० मेतदिति एतदिति ” २७ विसोर्णायां बिसोर्णायां १३३ २२ घटादेरिव घटादेरिव १३४ २ पृथिव्या पृथिव्या ” १९ निहन्तुम् निर्हन्तुम् १३५ ३० करणापेक्षामः करणोपशमः १३७ ८ अविरोलक्षणा अविरोधलक्षणा ” १३ ऐकाप्यम् ऐकाग्रयम् १३९ ५ स्वाक्ष्णनृतम् साक्ष्यनृतम् ” १३ निघाताथर्नादि निर्घातादीनि १४० ९ प्रदेशामाच्छाद्य प्रदेशमाच्छाद्य १४२ १० ग्रवृत्तस्य प्रवृत्तस्य १४३ २४ शाक्त्या शक्त्याः १४८ १३ ततत्र्यहम् ततस्त्र्यहम् १५३ ८ कृच्छ कृच्छ्र ” ९ हरीतौ हारीतौ १५५ २ सन्यवहारो संव्यवहारो १५६ ५ लच्छ्रास उच्छ्वास १५८ १३ खटाङ्गं खट्वाङ्गमू १५९ ९ ” ” ” २२ भ्रणहा भ्रूणहा ” २३ चक्रम्‍येत चंक्रम्येत ” २४ स्वटांगस्य खट्वाङ्गस्य ” २६ विप्रजत विप्रव्रजत १६२ १ द्वहान् द्वयहान् १६२ १७ वपेरन् (७-७) वपेरन् (१०-७) १६४ १ काल (१०-७) काल (७-७) ” ” मन्यते मन्यन्ते ” १६ उच्यते उच्यन्ते १६५ १ नित्वेति नीत्वेति ” २ अहिताग्नि आहिताग्नि १६६ ८ पयस्विनीभवति पयस्विनी न भवति १७० ५ फ्ल्पन्तत्वेन क्‍तव्यन्तत्वेन ” ७ ग्रशस्तं प्रशस्तं ” १३

। अशुद्धसंशोधनम् । ४ अशुद्धम् शुद्धम् पृ० पं० अस्तंयस्तं अस्तं यन्तम् १७१ ८ बर्जयेत्पात्रम्य वर्जयेत्पात्रस्थ १८० १७ स्त्र्युपगार्थे स्त्र्युपभोगार्थं १८२ १४ शषाणि शेषाणि १८३ १८ गर्माधानादि गर्भाधानादि १८४ ४ चण्डालोपम्पर्श चण्डालोपस्पर्श १८६ १ पक्रमकम् पक्रमपक्वम् १८७ २१ प्रथमयोगः प्रथमप्रयोगः १८८ २ स्वाहृत्येताभ्यां स्वाहेत्येताभ्याम् १९० ४ अवोक्षत् अवोक्षेत् १९४ १४ मुदिन्या मुद्दिया २०१ " मित्यैकै मित्येके २०२ ४ माथवर्णिकानां माथर्वणिकानां २०७ ६ ब्रवाणः ब्रुवाणः २०७ १६ मधुपका मधुपर्का २०८ १७ भातरि मातरि २१२ ६ नष्ठवंसयोग नाष्ठवसंयोग २१४ ९ राजनं राजानं २१६ १६ शास्त्रोष्यर्थ शास्त्रेष्वर्थ " २० द्वारनम्रौंश्च द्वारनम्नींश्च २२० २ आवहरेन् आवहेरन २२४ १ यस्मिन्नुदति यस्मिन्नुदेति च २२५ २३ स्वपन्नोभीनमुक्तो स्वपन्नभिनिर्मुक्तो " २५ अपरद्युः अपरेद्युः " २६ गृह्नायात् गृह्णीयात् २३१ २१ प्रातगृह्णीयात प्रतिगृह्णीयात् " २२ धमार्थ धर्मार्थ २३२ १६ वेड्यनि वेश्मनि २३६ ३२ प्रवर्तंग्ये प्रवर्तन्ते २३८ ५ एवमतेषु एवमेतेषु " २६ प्रासयिद्यो प्राक्षविद्यो २३९ ६ मन्यते मन्यन्ते २४२ ४ ज्यष्ठं ज्येष्ठं २४२ २३ समानाधि सामानाधि २४७ १६