भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 310, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 310

उज्ज्वलोपेते द्वितीयः प्रश्नः । २९९ समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्तिः कृच्छ्रान्न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणाश्विति द्वित- कारपाठोऽयमर्षः । आदिति वा निपातस्य प्रश्लेषः । स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥ तत्र लक्षणम् ॥ १४ ॥ सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य- ग्विनीतानां वृद्धानामात्मवतामलोलुपानामदा- म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावभिजयति ॥ १५ ॥ पूर्वेण गतम् ॥ १५ ॥ स्त्रीभ्यस्सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीया- दित्त्येक इत्येके ॥ १६ ॥ उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान् स्त्र्यादीनामपि सकाशात् प्रतीयादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिन्नास्तथैव प्रति- पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि । द्विरुक्तिरध्यायपरिस- माप्त्यर्था ॥ १६ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने एकादशः पटलः ॥ ११ ॥ समाप्तो द्वितीयः प्रश्नः ॥ समाप्तमिदमुज्ज्वलोज्ज्वलितमापस्तम्बधर्मसूत्रम् ॥