भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 309, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 309

इत्यादिना प्रकारेण समाख्याप्य प्राड्विवाकादिभिः पृष्ट इति शे- षः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सभ्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपैतो दोषैश्च वर्जितस्साक्षी प्रश्नं पृष्टमर्थं सत्यं य- थाऽऽत्मना ज्ञातं तथा ब्रूयात् ॥ ७ ॥ अनृते राजा दण्डं प्रणयेत् ॥ ८ ॥ साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा(१) दण्डं प्रणयेत् । अत्र मनुः- '(२)यस्य दृश्येत सप्ताहा(३)दुक्तसाक्ष्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं (४)दाप्यो दण्डं च तत्समम् ॥' इति ॥ ८ ॥ न केवलमसत्यवचने राजदण्डः, किं तर्हि ? नरकश्चाऽत्राधिकः साम्पराये ॥ ९ ॥ साम्परायः परलोकः, तत्र नरकश्च भवति, न तु, (५)'राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ इत्यस्यायं विषय इति ॥ ९ ॥ सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥ सत्य उक्ते स्वर्गो भवति । सर्वाणि च भूतान्येनं प्रशंसन्ति अपि देवाः ॥१०॥ सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ॥ ११ ॥ स्त्रीषु शूद्रेषु च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्या- कर्म परितिष्ठतीति ॥ ११ ॥ आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति ॥ १२ ॥ अथर्वणा प्रोक्तमधीयते ये ते आथर्वणिकाः । वसन्तादिभ्यष्ठक् । तेषां समाम्नायः । “आथर्वणिकस्येकलोपश्च” आथर्वणः । तस्य वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्रेषु चेति ॥ १२ ॥ कृत्स्ना धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥ १. तं दण्डयेत् इति क. पु. २. म. स्मृ. ८. १०८. ३ उक्तवाक्यस्य इति च पु. ४. ऋणं दाप्यो दमं च सः इति. च. पु. मुद्रितपुस्तकेषु च। ५. म, स्मृ ८. ३१८,