आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 308, कुल 399 में से
संदर्भ में पढ़ेंसाक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २९७ प्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न विनियोक्तुं प्रभवति । भर्त्ता तु प्रभवति । तदेतेन वेदितव्यं ‘न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय- मुपदिशन्ती’ति (२. १४. २०) ॥ ३ ॥ तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ॥ ४ ॥ तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामु- ष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥ विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥ ५ ॥ अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु- क्ता निर्णोतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पत्, अध्ययनस- हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा- विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमादः तद्रहिताः ॥ ५ ॥ सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥ ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यच्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि त्यार्थस्थितिमन्विष्य निर्णोतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः ॥६॥ अथ साक्ष्यविधिः— पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभयतस्समा- ख्याप्य सर्वानुमते मुख्यस्सत्यं प्रश्नं ब्रूयात् ॥७॥ पुण्याहो देवनक्षत्रम , प्रातर्मध्याह्नादिषु अग्नावद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति राजाधिष्ठिते सदसि । राज- ग्रहणं प्राड्विवाकादेरुपलक्षणम् । उभयत उभयोर्थिप्रत्यर्थिनोस्समाख्या- प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने च असत्यवचने च साक्षिणो यद्भावि फलं तत्, सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । (१) अनृतेन महाघोरं नरकं प्रतिपत्स्यसे ॥ १. उक्त्वाऽनृतं. इति. च. पु. आप० ध० ३८