आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 307, कुल 399 में से
संदर्भ में पढ़ें२९६ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. २९. दकादेरादाने कामकृतेऽप्यदण्ड्यः । तथा भोजनमप्याददानः प्राणसंशये न दण्ड्य इति ॥ १३ ॥ प्राप्तनिमित्ते दण्डकर्मणि राजानमेनस्स्पृशति ॥ १४ ॥ प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डकर्मणि दण्डस्याऽक्रि- यायां यदि दययाऽर्थलोभेन वा प्राप्तदण्डं न कुर्यात् तदा तदेनो राजान- मेव स्पृशति ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥ २८ ॥ ननु(१) शास्त्रफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह— प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः ॥ १ ॥ धर्ममधर्मं वा प्रकुर्वाणं यः प्रयुंक्ते-इदमित्थं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकारः-आज्ञापकोऽभ्यर्थायता अनुग्राहक इति । भृत्यादे र्निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेरागण्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधः—उपदेशस्तत्सधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रूमित्थं व्यापादय, धर्मार्जनेऽय तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिञ्जिघांसितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमति मन्तरेणाऽर्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षात्क्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेष्वधर्मेषु च भागिनः फल स्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥ १ ॥ यो भूय आरभते तस्मिन् फलविशेषः ॥ २ ॥ तेषु प्रयोजकादिषु यो भूय आरभते यस्य व्यापारोऽर्थनिवृत्तावधि- कमुपयुज्यते तस्मिन् फलविशेषो भवति ॥ २ ॥ यद्यप्येवम्— कुटुम्बिनौ धनस्येशाते ॥ ३ ॥ कुटुम्बिनौ दम्पती । तौ धनस्य परिग्रहे विनियोगे च ईशाते । यद्य १. पूर्वमीमांसासूत्रस्य ( जै. सू. ३. ७. १८. ) नुवादोऽयम् ।