आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 306, कुल 399 में से
संदर्भ में पढ़ेंदण्डानर्हाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९५ नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ॥ ६ ॥ अवरुध्य(१) पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ॥ ७ ॥ यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभ्यस्थाने विसृज्यो- पेक्षया मारयेत् नाशयेद्वा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥ प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८ ॥ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा ग्राममानीय स्वामिभ्यः अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा नियुक्तः ॥ ८ ॥ पुनः प्रमादे सकृदवरुध्य ॥ ९ ॥ पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवसृजेत् ॥ ९ ॥ तत ऊर्ध्वं न सूक्षेत् ॥ १० ॥ ततो द्वितीयात् प्रयोगादूर्ध्वं 'ग्राममानीयै'त्यादि यदुक्तं तन्न सूक्षेत् ना- द्रियेत तस्मिन् विषये उपेक्षेत ॥ १० ॥ परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥ एधाश्चोदकं च एधोदकम् । ग्रासो गवाद्यर्थो यवसादिः । सर्वत्र वि- षयसप्तमी । यः परपरिग्रहोऽयमित्यविद्वानजानन् एधादिकमादत्ते गृह्णा- ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः निवार्यः ॥ ११ ॥ विदुषो वाससः(२) परिमोषणम् ॥ १२ ॥ यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥ अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः॥१३॥ तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशयदशायामेधो- १. 'पशून्मारयेन्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम्, इति, क, पु.