भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 304, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 304

उज्ज्वलोपेते द्वितीयः प्रश्नः । २९३ यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं नियमातिक्रमणमन्य वा प्रति- षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुन्ध्यात् ॥ १८ ॥ आसमापत्तेः ॥ १९ ॥ यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिष्य इति ब्रूयात् ॥ १९ ॥ असमापत्तौ नाशः ॥ २० ॥ यद्यसौ दीर्घकालं निरुद्धोऽपि न समापद्येत, ततो नाशः निर्वास्यः२० आचार्य ऋत्विक्स्नातका राजेति त्राणं स्युरन्यत्र वध्यात् ॥ २१ ॥ यदि दण्डे प्रवृत्तं राजानमाचार्यो ब्रूयात्-अहमेनमतः परं वारयि- ष्यामि मुच्यतामयमिति । अतोऽङ्गदण्डं प्राप्तेऽर्थदण्डम्, अर्थदण्डे प्राप्ते ताडनेम् , ताडने प्राप्ते धिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृ- त्विजि । ऋत्विगाचार्यौ राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्याव्रता- भ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञस्सम्मान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यत्र वधात् यस्य वधानुगुणोऽपराधः न तस्याऽऽचार्यादयोऽपि त्राणम् ; हन्तव्य एव स इति ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥ १० ॥

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 304, कुल 399 में से · BharatKosha