भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 303, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 303

२९२ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७. चतुर्थे सर्वम् ॥ १३ ॥ अतः -चतुर्थे सन्निपाने सर्वमेव पतति । तनश्च पूर्णद्वादशवार्षिकं कर्तव्य- म् । तृतीये नव वर्षाणि । द्वितीये षड्वर्षाणि । एतच्च प्रतियोगं स्त्रीभेदेन प्रथमदूषकस्य । एकस्यामेव त्वभ्यासे कल्प्यम् । तत्र- (१)'यत् पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्, इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो- धेन कल्प्यम् ॥ १३ ॥ जिह्वाच्छेदनं शूद्रस्याऽऽर्ये धार्मिकमाक्रोशतः ॥ १४ ॥ शूद्रो द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । मनुस्तु सामान्येनाह- (३)'येनाङ्गेनावरो वर्णो ब्राह्मणस्याऽपराध्नुयात् । तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥ गौतमस्तु--(४)'शूद्रो द्विजातीनातिसन्धायाऽभिहत्य च वाग्दण्डपारु- ष्याभ्यामङ्गं मोच्यो येनोपहन्द्या'दिति ॥ १४॥ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् ॥ १५ ॥ यस्तु शूद्रो वागादिष्वार्यैस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन ताडनं कर्तव्यम् । स दण्डेन ताडयितव्यः । अयमस्य दण्डः ॥ १५ ॥ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः ॥१६॥ भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु निमित्तेषु शूद्रस्सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयितव्यः ॥ १६ ॥ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ॥ १७ ॥ ब्राह्मणस्य त्वेतेषु निमित्तेषु चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति । न तूत्पाटयेतव्ये (५)'न शारीरो ब्राह्मणदण्डः । अक्षतो ब्राह्मणो व्रजे'दिति स्मरणात् । 'चक्षुनिरोध' इति रेफलोपश्छान्दसः ॥ १७ ॥ नियमतिक्रामिणमन्यं वा रहसि बन्धयेत् ॥ १८ ॥ १. म. स्मृ. ११. १७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ. ८. २७९. ४. गौ. १२. १. ५. गौ. ध. १२. ४६.