आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 302, कुल 399 में से
संदर्भ में पढ़ेंपरस्त्रीगमनप्रायश्चित्तम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९१ वध्यश्शूद्र आर्यायाम् ॥ ९ ॥ शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च योऽन्तःपुरादिष्वधि- कृतो रक्षकस्सन् स्वयं गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतमः(१)-'आर्यस्यभिग- मने लिङ्गोद्धारः स्वहरणं च । गोप्ता चेद्वधोऽधिक' इति । याज्ञवल्क्येन प्रातिलोम्येन गमनमात्रे वध उक्तः- "(२)सजातावुत्तमो दण्डः आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥' इति । सोऽनुबन्धाभ्यासाद्यपेक्षो द्रष्टव्यः । तथा 'नास्य भार्य्यशूद्रायामि' त्याचार्यवचनमप्यभ्यासापेक्षम्, ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विष- यं वा द्रष्टव्यम् ॥ ९ ॥ दारं चाऽस्य कर्शयेत् ॥ १० ॥ अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत् व्रतनियमोपवासैः । या प्रजाता न भवति तद्विषयमेतत् । (४)'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः॥' इति स्मरणात् ॥ १० ॥ सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्ति ॥ ११ ॥ अन्यः पूर्वः पतिः यस्यास्सा अन्यपूर्वा परभार्या, तस्यां सवर्णायां सकृ- द्गमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्योऽ शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा- र्यायामृतुकाले कामतः प्रथम(५)दूषकस्य । तत्र गौतमः(६)-'द्वे पर- दारे । त्रीणि श्रोत्रियस्ये'ति ॥ ११ ॥ एवमभ्यासे पादः पादः ॥ १२ ॥ एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२ ॥ १. गौ. ध. १२. २. ३. २. या. स्मृ. २. २८६. ३. पुंसो नार्याः कर्णादिकर्तनम् इति विज्ञानेश्वरारूढः पाठः । ४. श्लोकोऽयं मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः । ५. दूषकस्य ब्राह्मणस्य. इति घ. च. पु ६. गौ. ध. २२. २९, ३०.