भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 285, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 285

२७४ आपस्तम्बधर्मसूत्रे [(प.९)क.२२. तस्याऽऽरण्यमाच्छादनं विहितम् ॥ १ ॥ अरण्ये भवमारण्यमजिनवल्कलादि ॥ १ ॥ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् ॥ २ ॥ ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वंश्चरेच्चरणशीलः स्यात् ॥ २ ॥ अन्ततः प्रवृत्तानि ॥ ३ ॥ मूलादिभिः स्वयंगृहीतैः कञ्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयमेव पतितानि अभिनिश्रयेदिति वक्ष्यमाणेन सम्बन्धः । तान्य- भिनिश्रित्य तैर्वर्तयेदिति ॥ ३ ॥ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥ ततः कियन्तञ्चित्कालमब्भक्षः ततो वायुभक्षः तत आकाशमभि निश्रयेत् न किञ्चित् भक्षयेदिति । अभिनिश्रयण सेवनम् ॥ ४ ॥ तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ ५ ॥ संयुज्यते संश्रयत इति संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५ ॥ अथ वानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥ ६ ॥ अथेति पक्षान्तरोपन्यासे । पूर्वं ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके त्वाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्व्यं कर्मोपदिशन्ति ॥ ६ ॥ कथम् ?— विद्यां समाप्य दारं कृत्वाऽग्नीनाधाय कर्माण्यरभतै सोमावराध्यानि यानि श्रूयन्ते ॥ ७ ॥ ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावराध्यानि अवरार्धं पश्चार्धं तत्र भवोऽवरार्ध्यः सोमः अवरार्ध्यो येषां तानि सोमावराध्यानि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्यादीन् हविर्यज्ञान् सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ वि- हितानि ॥ ७ ॥ गृहान् कृत्वा सदारस्सप्रजस्सहाग्निभिर्बहिर्ग्रामाद्वसेत् ॥८॥